________________
अनगारधर्मे-शुद्धिवर्णनम् । ३५ मेव बोधाजनितप्रयत्नपरिहृतजन्तुपीडाज्ञानादित्यस्वेन्द्रियप्रकाशनिरीक्षितदेशगामिनी द्रुतविलम्बितसंभ्रान्तविस्मितलीलाविकारदिगवलोकनादिदोषविरहितगमना तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । भिक्षाशुद्धिः परीक्षितोभयप्रचारा प्रमृष्ट पूर्वापरस्वाङ्गदेशविधानाऽऽचारसूत्रोक्तकालदेशप्रकृतिप्रतिपत्तिकुशला लामालाभमानावमानसमानमनोवृत्तिः गीतनृत्तप्रसूतिकामृतकसुरापण्याङ्गनापापकर्मदीनानाथदानशालायजनविवाहादिमङ्गलगेहपरिवर्जनपरा चन्द्रगतिरिव हीनाधिकगृहविशिष्टोपस्थाना लोकगर्हितकुलपरिवर्जनोपलक्षिता दीनवृत्तिविगमा प्रासुकाऽऽहारगवेषणाप्रणिधानाssममविहितनिरवद्याशनपरिप्राप्तप्राणयात्राफला तत्प्रतिबद्धा हि चरणसंपद्गुणा संपदिव साधुजनसेवानिबंधना सा लाभालाभयोः सरसविरसयोश्च समसन्तोषवद्भिर्भिक्षेति भाष्यते । भिक्षाशुद्धिपरस्य मुनेरशनं पंचविध भवति, गोचाराक्षम्रक्षणोदराग्निप्रशमनभ्रमराहारश्वभ्रपुरणनामभेदेन । यथा सलीलसालंकारयुवतिभिरुपनीयमानघासे गौर्न तदंगगतसौन्दर्यनिरीक्षणपरस्तृणमेवाऽत्ति यथा वा तृणोलपं नानादेशस्थं यथालाभमभ्यवहरति न योजनासंपदमपेक्षते तथा भिक्षुरपि भिक्षापरिवेषकजनमृदुललिततनुरूपवेषाभिलाषविलोकननिरुत्सुकशुष्कद्रवाहारयोजनाविशेष चानवेक्ष्यमाणो यथाऽऽगतमश्नातीति गोरिव चारो 'गोचार' इति व्यपदिश्यते तथा गवेषणेति च । यथा शकटीं रत्नभारपूर्णी येन केनचित्स्नेहेनाक्षिलेपं कृत्वाऽभिलषितदेशान्तरं वणिगुपनयति तथा मुनिरपि गुणरत्नभरितां तनुशकरीमनवद्यामिक्षाऽऽयुरक्षम्रक्षणेनाभिप्रेतसमाधिपत्तनं प्रापपतीति ' अक्षम्रक्षग' मिति च नाम रूढं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org