________________
चारित्रसारे
यथा भांडागारे समुत्थितमनलं शुचिनाऽशुचिना वा वारिणा प्रशमयति गृही तथा यथालब्धन यतिरप्युदराग्निं सरसेन विरसेन वा ऽऽहारेण प्रशमयतीत्युदराग्निप्रशमनमिति च निरुच्यते । दातृजनबाधया विना कुशलो मुनिभ्रमरवदाहरतीति भ्रमराहार इत्यपि परिभाष्यते । येन केनचित्कृतचारेण श्वभ्रपूरणवदुदरगर्त्तमनगारः पूरयति स्वादुनेतरेण वेति श्वभ्रपूरणमिति च निगद्यते । प्रतिष्ठापनशुद्धिपरः संयतो नखरीमसिंघाणकनिष्ठीवनशुक्रोच्चारप्रस्रवणशोधने देहपरित्यागे च विदितदेशकालो जंतूपरोधमतरेण यत्नं कुर्याप्रयतते । संयतेन शयनाशनशुद्धिपरेण स्त्रीक्षुद्रचौरपानाक्षशौंडशाकुनिकादिपापजनावासा वाः शृङ्गारविकारभूषणोज्वलवेषवेश्याक्रीडाभिरामगीतनृत्तवादित्राकुलप्रदेशा विकृतांगगुह्यदर्शनका. ष्ठमयालेख्यहास्योपभोगमहोत्सववाहनदमनायुधव्यायामभूमयश्च रागकारणानीन्द्रियगोचरा मदमानशोककोपसंक्लेशस्थानादयश्च परिहर्त्तव्याः, अकृत्रिमा गिरिगुहातरुकोटरादयः कृत्रिमाश्च शून्यागारादयो मुक्तमोचितावासा अनात्मोद्देशनिवर्तिता निरारंभाः सेव्याः। तत्र संयतस्य त्रिविधो निवासः, स्थानमासनं शयनं चेति । पादौ चतुरांगुलान्तरे प्रस्थाप्याऽधस्तिर्यगूर्द्धाऽन्यतममुखो भूत्वा यत्राऽऽत्मभावो यथाऽऽत्मबलवीर्यसदृशः कर्मक्षमप्रयोजनोऽसंक्लिष्टमतिस्तिष्ठेत् , अथ न शक्नुयान्निष्प्रतिज्ञातः पर्यङ्कादिमिरासनैरासीत, यद्यपरिमितकालयोगः खिन्नो वैकपार्श्वबाहूपधानसंवृतांगादिभिरल्पकालं श्रमपरिहारार्थ शयीत । वाक्यशुद्धिः पृथिवीकायिकाद्यारंभप्रेरणरहिता युद्धकामकर्कशसंभिन्नालापपैशून्यपरुषनिष्ठुरादिपरपीडाकरप्रयोगनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org