________________
अनगारधर्म-संयमवर्णनम् । ३७ रुत्सुका स्त्रीभक्तराष्ट्रावनिपालाऽऽश्रितकथाविमुखा व्रतशीलदेशनादिप्रदानफला स्वपरहितमितमधुरमनोहरा परमवैराग्यहेतुभूता परिहतपरात्मनिन्दाप्रशंसा संयतस्य योग्या तदधिष्ठाना हि सर्वसंपद इति ।
इति शुद्धिप्रकरणम् ।
अथ संयमभेदाः साक्षान्मोक्षप्राप्तिकारणान्युच्यन्ते । सामायिक, छेदोपस्थापना, परिहारविशुद्धिः, सूक्ष्मसाम्परायः, यथाख्यात. चारित्रमिति ।
तत्र सामायिकमवस्थानं सर्वसावद्ययोगस्याभेदेन प्रत्याख्यानमवलंब्य प्रवृत्तमथवाऽवधृतकालमनवधृतकालं सामायिकमित्याख्यायते । त्रसस्थावरजन्तुदेशकालप्रादुर्भावनिरोधाप्रत्यक्षत्वात् प्रमादवशादभ्यु. 'पगतनिरवद्यक्रियाप्रबंधप्रलोपे सति तदुपात्तस्य कर्मणः सम्यक् प्रतिक्रिया छेदोपस्थापनाऽथवा सावद्यकर्मणो हिंसादिभेदेन विकल्पानिवृत्तिश्छेदोपस्थापना । प्राणिवधान्निवृत्तिः परिहारस्तेन विशुद्धिर्यस्मिन्तत्परिहारविशुद्धिचारित्रम् तत्पुनस्त्रिंशद्वर्षजातस्य संवत्सरपृथक्त्वं तीर्थकरपादमूलसेविनः प्रत्याख्याननामधेयपूर्वार्णवपारंगतस्य जन्तुनिरोधप्रादुर्भावकालपरिणामजन्मयोनिदेशद्रव्यस्वभावविधानज्ञस्य प्रमादरहितस्य महावीर्यस्य परमनिरस्यातिदुष्करचर्यानुष्ठायिनस्तिस्रः सन्ध्यां वर्जयित्वा द्विगन्यूतिगामिनः संपद्यते नान्यस्य । सूक्ष्मस्थूलसत्त्ववधपरिहारप्रवृत्तत्वादनुपहतोत्साहस्याखंडितक्रियाविशेषस्य सम्यग्दर्शनज्ञानमहामारुतसंधुक्षितप्रशस्ताध्यवसायाग्निशिखोपश्लिष्टकमन्धनस्य ध्यानविशेषविशिखीकृतकषायविषांकुरस्यापचयाभिमुखस्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org