________________
चारित्रसारेकमोहवीजस्य तत · एव परिप्राप्तान्वर्थसूक्ष्मसाम्परायशुद्धसंयतस्य सूक्ष्मसाम्परायचारित्रम् । चारित्रमोहस्य निरवशेषस्योपशमात्क्षयाचात्मस्वभावावस्थोपेक्षालक्षणमथाख्यातचारित्रं, अथ शब्दस्यानन्तयथार्थवृत्तित्वान्निरवशेषमोहक्षयोपशमाऽनंतरमाविर्भवतीत्यथाख्यातं, अथवा यथाऽऽत्मस्वभावावस्तिथस्तथैवाऽऽख्यातत्वाद्यथाख्यातमिति । ___ ततो यथाख्यातचारित्रात्सकलकर्मसमाप्तिर्भवति । सामायिकादीनामानुपूर्व्या वचनमुत्तरोत्तरगुणप्रकर्षख्याफ्नार्थन् । तद्यथा-सामायिकछेदोपस्थापनासंयमस्य जघन्यविशुद्धिरल्पा ततः परिहारवशुद्धिचारित्रस्य जघन्यलब्धिरनन्तगुणा तस्यैवोत्कृष्टाविशुद्धिरनन्तगुणा ततः सामायिकछेदोपस्थापनासंयमोत्कृष्टविशुद्धिरनन्तगुणा ततः सूक्ष्मसाम्परायचारित्रस्य जघन्यविशुद्धिरनन्तगुणा तस्यैवोत्कृष्टा विशुद्धिरनन्तगुणा ततो यथाख्यातचारित्रविशुद्धिः संपूर्णा प्रकर्षाप्रकर्षविरहिताऽनन्तगुणाः । एवमेते पञ्च चारित्रोपयोगाः शब्दविषयत्वेन संख्येयभेदाः । बुध्यध्यवसानभेदादसंख्येया अर्थादनन्तभेदाश्च भवंति । तद्देतच्चारित्रं सर्वास्रवनिरोधकारणत्वात्परमसंवरहेतुरित्यवसेयम् । __ अथ वा व्रतधारणसमितिपालनकषायनिग्रहदंडत्यागेन्द्रियजयः संयमः । तत्र हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहविरतिरिति पंचधा व्रतं । तत्रेन्द्रियकषायनिग्रहमकृत्वा प्रमत्त इव यः प्रवर्त्तते स प्रमत्तः । पंचेन्द्रियमनोवाक्कायवलोच्छासनिःश्वासायुष्काणि प्राणाः । एकेन्द्रियादयः प्राणिनः प्रमत्तपरिणामयोगात्प्राणिप्राणव्यपरोपणं हिंसा । सा च संरभसमारंभारंभैस्त्रिभिः कायवाङ्मनःकर्मयोगैस्त्रिभिः कृत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org