________________
अनगारधर्मे-संयमवर्णनम् । ३९ कारितानुमतैत्रिभिः क्रोधादिकषायैश्चतुर्मिभिद्यते । तत्र प्राणव्यपरोपणादिषु प्रमादतः प्रयत्नावेशः संरंभः । साध्यायाः क्रियायाः साधनानां समाहारः समारंभः । आदौ क्रमः प्रक्रम आरंभ इति ।
औदारिकशरीरनामकर्मोदयवशात्पुद्गलैश्चीयत इति कायः । वाक् द्विविधा, भाववाक्, द्रव्यवागिति । तत्र भाववाग्वीर्यान्तरायमति. श्रुतज्ञानावरणक्षयोपशमांगोपांगनामलाभनिमित्तत्वात् पौद्गलिकी । तदभावे तद्वृत्यभावात्तत्सामोपेतेन क्रियावताऽऽत्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्यवागपि पौद्गलिकी । मनश्च द्विविधं, भावमनो द्रव्यमनश्चेति । तत्र भावमनो लब्ध्युपयोगाभ्यां लक्ष्यते पुद्गलावलंबनत्वात्पौद्गलिकं । द्रव्यमनश्च ज्ञानावरणवीर्यान्तरायक्षयोपशमलाभप्रत्यया गुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकाः पुद्गला वीर्यविशेषावर्जनसमर्था मनस्त्वेन परिणता इति पौद्गलिकमिति । स्वातन्त्र्यविशिष्टेनात्मना यः प्रादुर्भावितं तत्कृतं । परस्य प्रयोगमपेक्ष्य सिद्धिमापद्यमानं कारितं । प्रयोजकस्य मनसाऽभ्युपगमनमनुमतमिति । आत्मनः सम्यक्त्त्वसंयमासंय. मसंयमयथाख्यातचारित्रं कषन्तीति कषायाः । अथ वा कृषन्ति फलवत्कुर्वन्ति कर्मबीजमिति कषायाः । संरंभसमारंभारंभणामधस्तात् योगान् कृतकारितानुमतानि क्रोधमानमायालोमांश्च क्रमेण व्यत्रस्थाप्य संरंभं निरुध्याङ्कसंचारे कृते षट्त्रिंशद्विकल्पा भवन्ति । एवं समारंभे आरंभे च प्रत्येकं त्रिशद्विकल्पा भवन्ति । सर्वे संपिंडिता अष्टोत्तरशतसंख्याका भवन्ति ।
एवं कायादियोगान्कृतकारितानुमतानि क्रोधादिकषायांश्चैकैक निरुध्यांकसंचारः कर्त्तव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org