SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४० चारित्रसारे ___ संख्यातासंख्यातानंतभवसंसारावस्थानमनन्तानुबन्धिनां कषायाणां । षण्मासावस्थानमप्रत्याख्यानानां । पक्षावस्थानं प्रत्याख्यानानां । अन्तर्मुहूर्तावस्थानं संज्वलनानां । एवंविधषोडशकषायभेदात् द्वात्रिंशदुत्तरचतुःशतविकल्पा भवन्ति । ___ अप्रतिपीड्याः सूक्ष्मजीवाः, वादरजीवानां गत्यादिमार्गणागुणस्थानकुलयोन्यायुष्यादिकं ज्ञात्वा गमनस्थानशयनासनादिषु स्वयं न हननं, परैर्वा न घातनं, अन्येषामपि हिंसतां नानुमोदनं हिंसाविरतिः । अहिंसाव्रतं स्वर्गापवर्गफलप्रापणहेतुस्तत्प्रतिपालननिमित्तं शेषाणि व्रतानि । अहिंसकः पुरुषो निजजनकवद्विश्वास्यः पूज्यश्च भवति । हिंस्रो हि नीत्योद्वैजनीयः संततोऽनुबद्धवैरश्चहैव च वध. बन्धपरिक्लेशादीन् परिलभते प्रेत्य चाशुभां गति, गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । परमार्थग्रहणेच्छयाऽहिंसाव्रतस्थैर्यार्थ पंच भावना भवन्ति । वाग्गुप्तिः, मनोगुप्तिः, ईर्यासमितिः, आदाननिक्षेपणासमितिः, आलोकितपानभोजनमिति । पारमार्थिकस्य भूतनिह्नवेऽभूतोद्भावने च यदभिधानं तदेवानृतं स्यात् । भूतनिह्नवे नास्त्यात्मा नास्ति परलोक इत्यादि । अभूतोद्भावने च श्यामाकतंदुलमात्र आत्मांगुष्ठपवमात्रः सर्वगतो निष्क्रिय इत्यादि । यद्विद्यमानार्थ विषयं प्राणिपीडाकारणं तत्सत्यमप्यसत्य १ "ख" पुस्तके " परमार्थिकस्य ” इति पाठो नास्ति । २ तंदुलसंज्ञो विशेषः । ३ प्रमाणे “ द्वयसज्दघ्नञ्मात्रचः" इत्यनेन पाणिनिसूत्रेण प्रमाणार्थे मात्रचू प्रत्ययः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy