________________
३४
चारित्रसारे
तुसुगंधिद्रव्यरजः । मूलकम्मेय वशीकरणं । एते षोडशोत्पादनदोषा भवन्ति ।
संकिदा सन्दिह्यमानं । मख्खिदा तैलाद्यभ्यक्तं । णिक्खिदा अप्रा. सुकोपस्थापितं । पिहिय सचित्तादिपरिस्थापितं । साहरणा झटिति ग्रहणं । दायग सदोषदाता । ऊमिस्से अप्रासुकमिश्रं । अपरिणद अविध्वस्त । लित्ता खटिकादिलिप्तं। छोडिद त्यक्त्वाऽऽदिभोजनं । एते दशैषणा दोषाः ।
संयोयणा स्वादनिमित्तं शीतोष्णभक्तपानादिमिश्रणं । अप्पमाणं मात्राधिक्यं । इंगाल सगृद्धिभोजनं । थूम निंदयन् भुंक्ते । एतेऽप्येषणादोषा भवन्ति ।
एतैर्षट्चत्वारिंशद्दोषैः परिवर्जितैषणासमितिभवति । . कायशुद्धिर्निरावरणा निरस्तसंस्कारा यथाजातमलधारिणी निराकृतांगविकारा सर्वत्र प्रयत्नवृत्तिः प्रशममूर्तिमिव प्रदर्शयन्ती तस्यां सत्यां न स्वतोऽन्यस्य भयमुपजायते नाप्यन्यतः स्वस्य । विनयशुद्विरहंदादिपरमगुरुषु यथाऽर्हपूजाप्रवणा ज्ञानादिषु च यथाविधिभक्तियुक्ता गुरोः सर्वत्रानुकुलवृत्तिः प्रश्नस्वाध्यायवाचनाकथाविज्ञापनादिषु प्रतिपत्तिकुशला देशकालभावावबोधनिपुणाऽऽचार्यानुमतचारिणी तन्मूलाः सर्वसंपदः सैव भूषा पुरुषस्य सैव नौः संसारसमुद्रोत्तरणे । ईर्यापथशुद्धिर्नानाविधनीवस्थानां योनीनामाश्रयाणा- १ "क" पुस्तके एष उद्गमदोषादिप्रस्ताव एषणासमितिप्रकरणे लिखितोऽस्ति तत्रैव मनोज्ञतया प्रतिभाति प्रस्तुतत्त्वविशेषात् । अत्र विस्मृत्य लिखित इति पाठकाः क्षमां विदधतु-प्रार्थी, इन्द्रलाल शास्त्री ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org