________________
अनगारधर्मे तपोवर्णनम् ।
१०१
अघोरगुणब्रह्मचारिण इति पाठे अघोरं शांतं ब्रह्मचारित्रं येषां ते अघोर गुणब्रह्मचारिणः । शांतिपुष्टिहेतुत्वाद्येषां तपोमाहात्म्येन डमरे ऽतिमारिदुर्भिक्षवैरकलहवधबंधनरोगादिप्रशमनशक्तिः समुत्पद्यते तेऽघोरगुणब्रह्मचारिणः । इति तपोऋद्धिः ।
अथ बलर्द्धिः । बलाऽऽलंबनादृद्धिस्त्रिविधा मनोवाक्कायविषयभेदात् । तत्र श्रुतावरणवीयतरायक्षयोपशमप्रकर्षे सति खेदमंतरेणांत मुहूर्त्ते सकलश्रुतार्थचिंतनेऽवदाता मनोबलिनः । मनोजिह्वाश्रुतावरणवीर्यौतरायक्षयोपशमातिशये सत्यंतर्मुहूर्ते सकल तोच्चारणसमर्थाः सततमुच्चैरुच्चारणे सत्यपि श्रमविरहिता अहीनकंठाश्च वाम्बलिनः । वीर्यान्तरायक्षयोपशमप्रकर्षादाविर्भूताऽसाधारणकायबलत्वान्मासिकचातुर्मासिक सांवत्सरिकादिप्रतिमायोगरूक्षमपि सर्पिरसवर्यविपाकमवाप्नोति, सर्पिरिव वा येषां भाषितानि प्राणिनां संतर्पकाणि भवति ते सर्पिरास्त्राविणः । येषां करपुटप्राप्तं भोजनं यत्किचिदमृतमा - स्कंदति; येषां वा व्याहृतानि प्राणिनाममृतवदनुग्राहकाणि भवति । इति सर्द्धिप्रकरणम
अथ क्षेत्रद्धिः । क्षेत्रर्द्धप्राप्ता द्वेधा; अक्षीणमहानसाः, अक्षीमहालयाश्चेति । लाभांतरायक्षयोपशमप्रकर्षप्राप्तेभ्यो यतिभ्यो भिक्षा दीयते ततो भोजनाच्चक्रधर स्कंधावारोऽपि यदि भुंजीत तद्दिवसे नान्नं क्षीयते तेऽक्षीणमहानसाः । अक्षीणमहालयलब्धि प्राप्ता यतयो यत्र हस्तचतुष्टयमात्रावासे वसंति तत्र देवमानुषतिर्यग्योनयः सर्वेऽपि निवसेयुः परस्परमबाधमानाः सुखमासते तेऽक्षीणमहालया इति ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org