________________
१०२
चारित्रसारे
एवमुक्तं तपःसामर्थ्य, तपस्विभिरध्युषितानि क्षेत्राणि तीर्थत्वमुपगतानि । परस्परविरोधिनोऽपि प्राणिनो जातिविरोधं कारणविरोधं विमुच्य शांतांतरंगा भवंति तपःसामर्थ्यात् । किं बहुना तपः किं न साधयत्यपि तु सर्वमेव साधयति । तदेवोक्तम्
यदूरं यद्दाराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दुरितिक्रमम् ॥ तपो यस्य न विद्यते स चंचापुरुषो यथा मुंचंति तं सर्वे गुणाः, नासौ मुंचति संसारं, उपधित्यागः पुरुषहितो यतोयतः परिग्रहादपेतस्ततस्ततः संयतो भवति । ततोऽस्य खेदो व्यपगतो भवति । परिग्रहपरित्याग एवैहिकामुत्रिकपरमसुखकारणं निरवद्यमनःप्रणि. धानं । पुण्यनिधानं । परिग्रहो बलवती सर्वदोषप्रसवयोनिः । नत्वस्या उपधिभिरतृप्तिरस्ति सलिलैरिव सलिलनिधेर्वडवायाः । उक्तं हि
अनेकाऽऽधेयदुष्पूर आशागर्त्तश्चिरादहो। चित्रं यत्क्षणमात्रेण त्यागेनैकेन पूर्यते ॥
अपि च
कः पूरयति दुष्पूरमाशागर्त दिने दिने । यत्रास्तप्रस्तमाधेयमाधारत्वाय कल्पते ॥ परिग्रहसंग एव दुःखभयादिकं जनयतीति । उपात्तेष्वपि शरीरादिषु संस्कारापोहाय 'ममेदं ' भावाऽभाव आकिंचन्यं । शरीरादिप निर्ममत्वात्परमनिवृतिमवाप्नोति यथा यथा पोषयति तथा तथा लोपट्यं तज्जनयति, तपस्यप्यनादरो भवति । शरी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org