SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ चारित्रसारे शीलसप्तकवर्णनम् । स्थवीयसी विरतिमभ्युपगतस्य श्रावकस्य व्रतविशेषो गुणव्रतत्रयं शिक्षाबतचतुष्टयं शीलसप्तकमित्युच्यते । दिग्विरतिः, देशविरतिः, अनर्थदंडविरतिः, सामायिक, प्रोषधोपवासः, उपभोगपरिभोगपरिमाणं, अतिथिसंविभागश्चेति । ___ तत्र प्राची, अपाची, उदीची, प्रतीची, ऊर्द्ध, अधो, विदिशश्चेति । तासां परिमाणं योजनादिभिः पर्वतादिप्रसिद्धाभिज्ञानश्च ताश्च दिशो दुष्परिहारैः क्षुद्रजंतुभिराकुला अतस्ततो बहिर्न यास्यामीति निवृत्तिर्दिविरतिः । निरवशेषतो निवृत्तिं कर्तुमशक्नुवतः शक्त्या प्राणिवधविरतिं प्रत्यागूर्णस्यात्र प्राणनिमित्तं यात्रा भवतु मा वा सत्यपि प्रयोजनभूयस्त्वे परिमितादिगवधैर्बहिर्न यास्यामीति प्रणिधानादहिंसाद्यणुव्रतधारिणोऽप्यस्य परिगणितादिगवधेहिर्मनोवाक्काययोगैः कृतकारितानुमतविकल्पैर्हिसादिसर्वनिवृत्तिरिति महाव्रतं भवति । दिग्विरमणव्रतस्य पंचातीचारा भवंति । उद्धतिक्रमः, अधोऽतिक्रमः, तिर्यगतिक्रमः, क्षेत्रवृद्धिः, स्मृत्यंतराधानं चेति । तत्र पर्वतमरुद्भम्यादीनामारोहणाओँतिक्रमः । कूपावतरणादिरधोतिक्रमः । भूमिबिलगिरिदरीप्रवेशादिस्तिर्यगतिक्रमः । प्राग्दिशो योजनादिभिः परिच्छिद्य पुनर्लोभवशात्ततोऽधिकाकांक्षणं क्षेत्रवृद्धिः । इदमिदं मया योजनादिभिरभिज्ञानं कृतमिति तदभावः स्मृत्यंतनधानम् । दिम्विरमणव्रतस्य प्रमादान्मोहाद् व्यासंगादतीचारा भवंति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy