________________
शीलसप्तकवर्णनम् ।
मदीयस्य गृहांतरस्य तडागस्य वा मध्यं मुक्त्वा देशांतरं न गमिप्यामीति तन्निवृत्तिर्देशविरतिः । प्रयोजनमपि दिग्विरतिवद्देशविरतिव्रतस्य ।
तस्य पंचातीचारा भवंति । आनयनं, प्रेप्यप्रयोगः, शब्दानुपातः, रूपानुपातः, पुद्गलक्षेप इति । तत्रात्मना संकल्पितदेशे स्थितस्य प्रयोजनवशाद्यत्किंचिदानयेत्याज्ञापनमानयनम् । परिच्छिन्नदेकाहहिः स्वयमगत्वाऽन्यप्रेष्यप्रयोगेनैवाभिप्रेतव्यापारसाधनं प्रेप्य. योगः। व्यापारकरान्पुरुषानुद्दिश्याभ्युत्कासिकादिकरणं शब्दानुपातः। । रूपं निरीक्ष्य व्यापारमचिरान्निप्पादयंतीति स्वांगदर्शनं रूपानुपातः । कर्मकरानुद्दिश्य लोष्टपाषाणादिनिपातः पुद्गलक्षेप इति । दिग्विरतिः सार्वकालिको । देशविरतियथाशक्तिकालनियमेनेति ।
प्रयोजनं विना पापादानहेतुरनर्थदंडः। स च पंचविधः । अपध्यानं, पापोपदेशः, प्रमादाचरितं, हिंसाप्रदानं, अशुभश्रुतिरिति । तत्र जयपराजयवधबंधांगछेदसर्वस्वहरणादिकं कथं स्यादिति मनसा चिंतनमपध्यानम् । पापोपदेशश्चतुर्विधः। क्लेशवणिज्या, तिर्यवणिज्या, वधकोपदेशः, आरंभकोपदेशश्चेति । तत्रास्मिन्प्रदेशे दासीदासाश्च सुलभास्तान्नमून्देशान्नीत्वा विक्रये कृते महानर्थलाभो भविष्यतीति क्लेशवणिज्या । गोमहिप्यादीन्पशूनत्र गृहीत्वाऽन्यत्र देशे व्यवहारे कृते सति भूरि वित्तलाम इति तिर्यग्वणिज्या । वागुरिकशौकरिकशाकुनिकादिभ्यो मृगवराहशकुंतप्रभृतयोऽमुष्मिन्देशे संतीति वचनं वधकोपदेशः । आरंभकेभ्यः कृषिबलादिभ्यः क्षित्युदकज्वलनपवनवनस्यात्यारंभोऽनेनोपायेन कर्त्तव्य इत्याख्यानमारंभकोपदेशः । इत्येवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org