________________
चारित्रसारेप्रकारं पापसंयुक्तं वचनं पापोपदेशः । प्रयोजनमंतरेण भूमिकुट्टनसलिलसेचनाग्निविध्यापनवातप्रतिघातवनस्यातिच्छेदनाद्यवद्यकर्म प्रमादाचरितं विषशस्त्राग्निरज्जुकशादंडादिहिंसोपकरणप्रदानं हिंसाप्रदानम् । रागादिप्रवृद्धितो दुष्टकथाश्रवणश्रावणशिक्षणव्यापृतिरशुभश्रुतिरिति । एतस्मादनर्थदंडाद्विरतिः कार्या। ___ अनर्थदंडविरमणव्रतस्य पंचातीचारा भवंति । कंदर्पः, कौत्कुच्यं, मौखये, असमीक्ष्याधिकरणं, उपभोगपरिभोगानर्थक्यमिति । चारित्रमोहोदयापादितादागोद्रेकाद्यो हास्यसंयुक्तोऽशिष्टवाक्प्रयोगः सः कंदर्पः। रागस्य समावेशाद्धास्यवचनमविशिष्टवचनमित्येतदुभयं परस्मिन् दुष्टेन कायकर्मणा युक्तं कौत्कुच्यम् । अशालीनतया यत्किंचनानर्थकंबहुप्रलपनं तन्मौखर्यम् । असमीक्ष्याधिकरणं त्रिविधम् । मनोकायविषयभेदात् । तत्र मानसं परानर्थककाव्यादिचिंतनम् । वाग्भवं निष्प्रयोजनकथाव्याख्यानं परपीडाप्रधानं यत्किचन वक्तृत्वं च । कायिक प्रयोजनमंतरेण गच्छंस्तिष्ठन्नासीनो वा सचित्तचित्तपत्रपुष्पफलच्छेदनभेदनकुट्टनक्षेपणादीनि कुर्यात् , अग्निविषक्षारादिप्रदानं चारभेत । इत्येवमादि तदेतत्सर्वमसमीक्ष्याधिकरणम् । यस्य यावतार्थेनोपभोगोपरिभोगौ परिकल्पितौ तस्य तावानेवार्थ इत्युच्यते, ततोऽन्यस्याधिक्यमानर्थक्यं तदुपभोगपरिभोगानर्थक्यम् ।
सम्यगेकत्वेनायनं गमनं समयः, स्वविषयेभ्यो विनिवृत्त्य कायवाङ्. मनःकर्मणामात्मना सह वर्तनाद्दव्यार्थेनात्मन एकत्वगमनमि यर्थः । समय एव सामायिकं, समयः प्रयोजनमस्येति वा सामायिकम् ।
क्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org