________________
शीलसप्तकवर्णनम् । तच्च नियतकाले नियतदेशे च भवति । निर्व्याक्षेपमेकांतं भवनं वनं चैत्यालयादिकं च देशं मर्यादीकृत्य केशबंधं मुष्टिबंधं वस्त्रबंधं पर्यकमकरमुखाद्यासनं स्थानं च । कालमवधिं कृत्वा शीतोष्णादि परीषहविजयी, उपसर्ग सहिष्णुौनी हिंसादिभ्यो विषयकषायेभ्यश्च विनिवृत्त्य सामायिके वर्तमानो महाव्रती भवति । हिंसादिषु सर्वेष्वनासक्तचित्तोऽभ्यंतरप्रत्याख्यानसंयमघातिकर्मोदयजनितमंदाविरतिपरिणामे सत्यपि महाव्रतमित्युपर्यते । एवं च कृत्वाऽभव्यस्यापि निग्रंथलिंगधारिण एकादशांगाध्यायिनो महाव्रतपरिपालनादसंयमभावस्याप्युपरिमौवेयकविमानवासितोपन्ना भवति । एव भव्योऽपि निग्रंथरूपधारी सामायिकवशादहमिंद्रस्थानवासी भवति चेल्कि पुनः सम्यग्दर्शनपूतात्मा सामायिकमापन्न इति ।
समायिकव्रतस्य सर्वसावद्ययोगप्रत्याख्यानस्य पंचातीचारा भवंति । कायदुःप्रणिधानं, वाग्दुःप्रणिधानं, मनोदुःप्रणिधानं, अनादरः, स्मृत्यनुपस्थापनं चेति । तत्र दुष्टं प्रणिधानं, दुःप्रणिधानं, अन्यथा वा प्रणिधानं दुःप्रणिधानम्, क्रोधादिपरिणामवशाद्दष्टं प्रणिधानम् भवति, शरीरावयवानामनिभतावस्थानं कायदुःप्रणिधानम् । वर्णसंस्कारे भावार्थे चागमकत्वं चापलादि वाग्दुःप्र. णिधानम् । मनसोऽनर्पितत्वं मनोदुःप्रणिधानम् । इति कर्त्तव्यता प्रत्यसाकल्याद्यथा कथंचित्प्रवृत्तिरनुत्साहोऽनादरः । अनैकाग्र्यमस. माहितमनस्कता स्मृत्यनुपस्थानं, अथवा रात्रिंदिवं प्रमादिकम्य संचिंत्यानुपस्थानं स्मृत्यनुपस्थानम् । मनोदुःप्रणिधानस्मृत्यनुपस्थान. योरयं भेदः, क्रोधाद्यावेशात्सामायिकौदासीन्येन वा चिरकालमक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org