________________
१२
चारित्रसारे
स्थापनं मनसो मनोदुःप्रणिधानं, चिंतायाः परिस्पंदनादै काग्र्येणानवस्थापनं स्मृत्यनुपस्थापनमिति विस्पष्टमन्यत्वम् ।
प्रोषधः पर्वपर्यायवाची, शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पंचापीन्द्रियाणि उपेत्य तस्मिन्वसंतीत्युपवासः । उक्तं च
उपेत्याक्षाणि सर्वाणि निवृत्तानि स्वकार्यतः । वसंति यत्र सः प्राज्ञैरुपवासोऽभिधीयते ॥ पर्वणि चतुर्विधाऽऽहारनिवृत्तिः प्रोषधोपवासः, निरारंभः श्रावकः स्वशरीरसंस्कारकारणस्नानगंधमाल्याभरणादिभिर्विरहितः ववकाशे साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाश्रवणश्रावणचिन्तनावहितांत: करणः सन्नुपवसेत् ।
शुचा
प्रोषधोपवासस्य पंचातीचारा भवंति । अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः, अप्रत्यवेक्षिताप्रमार्जितादानं, अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणं, अनादरः, स्मृत्यनुपस्थानं चेति । तत्र जंतवः संति न संति वेति प्रत्यवेक्षणं चक्षुषोर्व्यापारो मृदुनोपकरणेन यत्क्रियते प्रयोजनं तत्प्रमार्जनं अप्रत्यवेक्षितायां भुवि मूत्रपुरीषोत्सर्गेऽप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्हदाचार्यादिपूजोपकरणस्य गंधमाल्यधूपादेरात्मपरिधानाद्यर्थस्य वस्त्रपात्रादेश्वादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवेक्षिताप्रमार्जितस्य प्रावरणादेः संतस्तरणस्योपक्रमणप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रमणम् । क्षुत्पीडितत्त्वादावश्यकेष्वनुत्साहोऽनादरः । स्मृत्यनुपस्थानं व्याख्यातमेव ।
उपेत्यात्मसात्कृत्य भुज्यत इत्युपभोगः, अशनपानगंधमाल्यादि सकृद् भुक्त्वा पुनरपि भुज्यत इति परिभोगः, आच्छादनप्रावरणालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org