________________
शीलसप्तकवर्णनम् ।
कारशयनाशनगृहयानवाहनादिः तयोः परिमाणमुपभोगपरिभोगपरि माणम् । भोगपरिसंख्यानं पंचविधं त्रसघातप्रमाद बहुवधानिष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं सदा परिहर्त्तव्यं त्रसघातं प्रति निवृत्तचेतसा मद्यमुपसेव्यमानं कार्याकार्यविवेकसं मोहकर मिति तद्वर्जनं । प्रमादविरहाय केतक्यर्जुनपुष्पादीनि बहुजंतुयोनिस्थानानि, आर्द्रशृंगवेरमूलकहरिद्रार्निवकुसुमादन्यिनंतकायन्यपदेशार्हाणि; एतेषामुपसेवनेन बहुधातोऽल्पफलमिति तत्परिहारः श्रेयान् । यानवाहनाभरणादिष्वेता वदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्त्तनं कर्त्तव्यम् । न हि व्रतमभिसंधिनियमाभावे सतीष्टानामपि चित्रवस्त्रवेषाभरणादीनामनुपसेव्यानां परित्यागः कार्ये यावज्जीवं । अथ न शक्तिः कालप रिच्छेदेन वस्तुपरिमाणेन च शक्त्यनुरूपं निवर्त्तनं कार्यम् ।
उपभोगपरिभोगपरिमाणत्रतस्यातीचाराः पंच भवंति । सचित्ताहारः सचित्तसंबंधाहारः, सचित्तसन्मिश्राहारः, अभिषवाहारः, दुःपक्काहार श्चेति । तत्र चेतनावद्द्द्द्रव्यं सचित्तं हरितकायः तदभ्यवहरणं सचित्ता हारः । सचित्तवतोपश्लिष्टः सचित्तसंबद्धाहारः । सचित्तेन व्यतिकीर्णः सचित्तसन्मिश्राहारः । सौवीरादिद्रवो वा वृष्यं वाऽभिषवाहारः । सांतस्तं दुलभावेनातिक्लेदनेन वा दुष्टः पक्को दुःपक्काहारः । संबंधमिश्रयोरयं भेद, संसर्गमात्रं संबंधः, सूक्ष्मजंतुव्याकीर्णत्वाद्विभागी कर्तुमशक्यः सन्मिश्रः । एतेषामभ्यवहरणे सचित्तोपयोग इंद्रिय मदवृद्धिर्वातादिप्रकोपो वा स्यात् । तत्प्रतीकारविषये पापलेपो भवति । अतिथयश्चैनं परिहरेयुरिति । संयममविनाशयन्नततीत्यतिथिरथवा नास्य तिथिरस्तीत्य तिथि
Jain Education International
For Private & Personal Use Only
१३
www.jainelibrary.org