________________
१४
चारित्रसारे
रनियतकालगमनमित्यर्थः । अतिथये संविभागोऽतिथिसंविभागः, स चतुर्विधः, भिक्षोपकरणौषधप्रतिश्रयभेदात् । उक्तं हि--
प्रतिग्रहोच्चस्थाने च पादक्षालनमर्चनम् ।
प्रणामो योगशुद्धिश्च भिक्षाशुद्धिश्च ते नव ॥ उक्तं हि--
श्रद्धा शक्तिरलुब्धत्त्वं भक्तिज्ञानं दया क्षमा।
इति श्रद्धादयः सप्त गुणाः स्युर्म्यहमधिनाम् ॥ . एवंविधनवविधपुण्यैः प्रतिपत्तिकुशलेन सप्तगुणैः समन्वितेन मोक्षमार्गमभ्युद्युतायातिथये संयमपरायणाय शुद्धचेतसाऽऽश्चर्यपंचकादिकमनिच्छता निरवद्या भिक्षा देया । धर्मोपकरणानि च सम्यग्दर्शनज्ञानचारित्रोपबृंहणानि दातव्यानि । औषधं ग्लानाय वातपित्तश्लेष्मप्रकोपहताय योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति ।
अतिथिसंविभागव्रतस्य पंचातीचारा भवंति । सचित्तनिक्षेपः, सचित्तपिधानं, परव्यपदेशः, मात्सर्य, कालातिक्रमश्चेति । तत्र सचित्ते पद्मपत्रादौ निधानं सचित्तनिक्षेपः । सचित्तेनावरणं सचित्तपिधानं । अयमत्र दाता दीयमानोऽप्ययमस्येति समर्पणं परव्यपदेशः । प्रयच्छतोऽपि सत आदरमंतरेण दानं मात्सर्यम् । अनगाराणाम. योग्ये काले भोजनं कालातिकम इति । पात्रदानं स्वस्य परस्य चोपकारः, स्वोपकारः पुण्यसंचयः परोपकारः सम्यग्ज्ञानादिवृद्धिः । तच्च दानं पारंपर्येणं मोक्षकारणं साक्षात्पुण्यहेतुः । विधिविशेषा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org