________________
सम्यक्त्व-पञ्चाणुव्रतवर्णनम् ।
७
योनिश्च, ततो जघनादन्यत्रानेकविधप्रजननविकारेण रतिरनंगक्रीडा । कामस्य प्रवृद्धः परिणामोऽनुपरतवृत्त्यादिः कामतीव्राभिनिवेश इति ।
धन्यधान्यक्षेत्रादीनामिच्छावशात् कृतपरिच्छेदो गृहीति पंचममणुव्रतम् ।
परिग्रहविरमणव्रतस्य पंचातिकमा भवंति । क्षेत्र-वास्तु-हिरण्यसुवर्ण-धन-धान्य-दासी-दास-कुप्पमिति । तत्र क्षेत्रं सस्याधिकरणं, वास्तु अगारं, हिरण्यं रूप्यादिव्यवहारप्रयोजनं, सुवर्ण विख्यातं, धनं गवादि, धान्यं ब्रीह्यादि, दासीदासं भृत्यस्त्रीपुरुषवर्गः, कुप्प क्षौमकार्पासकौशेयचंदनादि, एतेषु एतावानेव परिग्रहो मम नाऽतोऽन्य इति परिच्छिन्नात्प्रमाणात् क्षेत्रवास्त्वादिविषयादतिरेक अतिलोभवशात्प्रमाणतिरेक इति ।
रात्रावन्नपानखाद्यलेह्येभ्यश्चतुर्व्यः सत्त्वानुकंपया विरमणं रात्रिभोजनविरमणं षष्ठमणुव्रतम् ।
वधादसत्याच्चौर्याच्च कामाद्यान्निवर्तनम् । पंचधाऽणुव्रतं राज्यभुक्तिः षष्ठमणुव्रतम् ॥
इत्यणुव्रतवर्णनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org