________________
चारित्रसारे
अदत्तादानविरतेः पंचातीचारा भवति । स्तेनप्रयोगः, तदाहृतादानं, विरुद्धराज्यातिक्रमः, हीनाधिकमानोन्मानं, प्रतिरूपकव्यवहारश्चेति । मोषकस्य त्रिधा प्रयोजन; मुष्णन्तं स्वयमेव प्रयुक्ते, अन्येन वा प्रयोजयति, प्रयुक्तमनुमन्यते वा यः सः स्तेनप्रयोगः । अप्रयु. क्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । विरुद्धं राज्यं विरुद्धराज्यं, उचितन्यायादन्येन प्रकारेणादानं ग्रहणमतिक्रमः, तस्मिन्विरुद्धराज्ये योऽसावतिक्रमः स विरुद्धराज्यातिक्रमः । प्रास्था दिमानं तुलाद्युन्मानमेतेन न्यूनेनान्यस्मै देयमधिकेनात्मना ग्राह्यमित्ये वमादि कूटप्रयोगो हीनाधिकमानान्मानम् । कृत्रिमैर्हिरण्यादिभिर्वचना पूर्वको व्यवहारः प्रतिरूपकव्यवहार इति । __उपात्ताया अनुपात्तायाश्च परांगनायाः संगाद्विरतरतिर्विरताविरत इति चतुर्थमणुव्रतम् । ___ स्वदारसंतोषव्रतस्यातीचाराः पंच भवंति । परविवाहकरणं, इस्व. रिका--अपरिगृहीतागमनं, इत्वरिकापरिगृहीतागमनं, अनंगक्रीडा, कामतीत्राभिनिवेशश्चेति । तत्र सद्वेद्यस्य चारित्रमोहस्य चोदयाद्विवहनं विवाहः परस्य विवाहकरणं परविवाहकरणं । ज्ञानावरणक्षयोपशमादापादितकलागुणज्ञतया चारित्रमोहस्त्रीवेदोदयप्रकर्षादंगोपांगनामोदयावष्टंभाच्च परपुरुषानेतीति इत्वरिका या गणिकात्वेन वा पुंश्चलित्वेन परपुरुषगमनशीला अस्वामिका सा अपरिगृहीता, तस्यां गमनमित्वरिका-अपरिगृहीतागमनम् । या पुनरेकपुरुषभर्तृका सा परिगृहीता, तस्यां गमनमित्वरिकापरिगृहीतागमनम् । अंगं प्रजननं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org