SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व - पञ्चाणुव्रतवर्णनम् । 1 तस्य प्रमत्तयोगात्प्राणव्यपरोपणलक्षणस्य पंचातीचारा भवति । बंधो, वधः, छेदः, अतिभारारोपणं, अन्नपाननिरोधश्चेति । तत्राभिमतदेशगमनं प्रत्युत्सुकस्य तत्प्रतिबंधहेतोः कोलादिषु रज्ज्वादिभि - र्व्यतिषंगो बंधः । दंडकशावेत्रादिभिः प्राणिनामभिघातो वधः । कर्णनासिकादीनामवयवानामपनयनं छेदः । न्यायादनपेताद्वारादतिरिक्तस्य भारस्य वाहनमतिलो भागवादीनामतिभारारोपणम् । तेषां गवादीनां कुतश्चित्कारणात् क्षुत्पिपासाबाधोत्पादनमन्नपाननिरोध इति । स्नेहस्य मोहस्य द्वेषस्य वोद्रेकाद्यदसत्याभिधानं ततो निवृत्तादरो गृहीति द्वितीयमणुव्रतम् । , तस्य व्रतस्य पंचातिकमा भवति । मिथ्योपदेशः, रहोऽभ्याख्यानं, कूटलेखक्रिया, न्यासापहारः साकारमंत्रभेदश्चेति । तत्राभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्त्तनम - भिसंधानं वा मिथ्योपदशः । स्त्रीपुरुषाभ्यामेकांतेऽनुष्ठितस्य क्रियाविशेषस्य प्रकाशनं रहोऽभ्याख्यानम् । अन्येनानुक्तं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति वचनानिमित्तं लेखनं कूटलेखक्रिया । हिरण्यादेर्द्रव्यस्य निक्षेप्तुर्विस्मृतसंख्यस्याल्पसंख्यानमाददानस्य ' एवमित्य - ' नुज्ञावचनं न्यासापहारः । अर्थप्रकरणांग वि. कार भूक्षेपादिभिः पराकूतमुपलभ्य यदाविष्करणमसूयादिनिमित्तं तत्साकारमंत्रभेद इति । अन्यपीडाकरं पार्थिवादिभयवशादवशपरित्यक्तं वा निहितं पतितं विस्मृतं वा यद्दत्तं ततो निवृत्तादरः श्रावक इति तृतीयमणुव्रतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy