________________
चारित्रसारे
उक्तं चाबद्धायुष्कविषये
सम्यग्दर्शनशुद्धा नारकतिर्यनपुंसकत्रीत्त्वानि । दुःकुलविकृताल्पायुदरिद्रतां च वज्रति नाप्यव्रतिकाः ॥ भवाब्धौ भव्यसार्थस्य निर्वाणद्वीपयायिनः ।
चारित्रयानपात्रस्य कर्णधारो हि दर्शनम् ॥ दार्शनिकस्य कस्यचित्कदाचिद्दर्शनमोहोदयादतीचाराः पंच भवंति । शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवा इति ।
तत्र मनसा मिथ्यादृष्टानचरित्रगुणोद्धावनं प्रशंसा, वचसा भूताभूतगुणोद्भावनं संस्तवः, एवं प्रशंसासंस्तवयोनिसकृतो वाक्कृतश्च भेदः, शेषाः सुगमाः । सम्यग्दर्शनसामान्यादणुव्रतिकमहाव. तिनोरिमेऽतीचाराः । __ व्रतिको निःशल्यः पंचाणुव्रतरात्रिभोजनविरमणशीलसप्तकं निरतिचारेण यः पालयति स भवति । तत्र यथा शरीरानुप्रवेशिकांड. कुंतादिप्रहरणं शरीरिणां बाधाकरं तथा कर्मोदयविकारे शरीरमानसबाधाहेतुत्वाच्छल्यमिव शल्यम् । तत्रिविधं, मायानिदानमिथ्यादर्शनभेदात् । माया वंचनं, निदानं विषयभोगाकांक्षा, मिथ्यादर्शनमतत्त्वश्रद्धानम् । उत्तरत्र वक्ष्यमाणेन महावतिनाऽपि शल्यत्रयं परिहर्त्तव्यम् । __ अभिसंधिकृतो नियमो व्रतमित्युच्यते, सर्वसावद्यनिवृत्त्यसंभवादणुव्रतं द्वीद्रियादीनां जंगमप्राणिनां प्रमत्तयोगेन प्राणव्यपरोपणान्मनोवाक्कायैश्च निवृत्तः । अगारीत्याद्यणुव्रतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org