________________
"UNNNNNNN
सम्यक्त्व-पञ्चाणुव्रतवर्णनम् । न वेति शंकानिरासो निःशंकितत्त्वम् । ऐहलौकिकपारलौकिकेंद्रियविषय उपभोगाकांक्षानिवृत्तिः, कुदृष्टयंतराकांक्षानिरासो वा निःकाक्षता । शरीराद्यशुचित्वभावमवगम्य शुचीति मिथ्यासंकल्पापनयो. ऽथवाऽहत्प्रवचने इदमयुक्तं घोरं कष्टं न चेदिदं सर्वमुपपन्नमित्यशुभभावनानिरासो विचिकित्साविरहः । बहुविधेषु दुर्नयवर्त्मसु तत्त्वव. दाभासमानेषु युक्त्यभावमध्यवस्य परीक्षाचक्षुषा विरहितमोहममूढदृष्टित्त्वम् । उत्तमक्षमादिभावनयाऽऽत्मन आत्मीयस्य च धर्मपरिवद्धिकरणमुपबृहणम् । कषायोदयादिषु धर्मपरिभ्रंशकारणेषूपस्थितेषु स्वपरयोधर्मप्रच्यवनपरिपालनं स्थितिकरणम् । जिनप्रणीते धर्मामृते नित्यानुरागताऽथवा सद्यःप्रसूता यथा गौर्वत्से स्निह्यति तथा चातुर्वर्ण्य संघऽकृत्रिमस्नेहकरणं वात्सल्यम् । सम्यग्दर्शनज्ञानचा. रित्रत्रयप्रभावादात्मनः प्रकाशनमथवा ज्ञानतपःपूजासु ज्ञानदिनकरकिरणैः परसमयखद्योताद्योतावरणकरणं च, महोपवासादिलक्षणेन देवेंद्रविष्टरप्रकंपनसमर्थेन सत्तपसा स्वसमयप्रकटनं च महापूजामहा. दानादिभिधर्मप्रकाशनं च प्रभावना । एवंविधाष्टांगविशिष्टं सम्यक्त्वं तद्विकलयोरणुव्रतयो मापि न स्यात् । सम्यग्दर्शनमणुव्रतयुक्तं स्वर्गाय, महाव्रतयुक्तं मोक्षाय च ।
सम्यक्त्वमंगहीनं राज्यमिव श्रेयसे भवेन्नैव ।
न्यूनाक्षरो हि मंत्रो नालं विषवेदनाच्छित्यै ॥ सम्यक्त्वस्य गुणाः । संवेगो निर्वेदो निंदा गर्दा तथोपशमभक्ती । अनुकंपा वात्सल्यं गुणास्तु सम्यक्त्वयुक्तस्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org