SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ चारित्रसारे सम्यक्त्व-पञ्चाणुव्रतवर्णनम् । सम्यग्दृष्टीनां चत्वारो वंदना प्रधानभूताः, अर्हतः सिद्धाः साधवो धर्मश्चेति । तत्राईसिद्धसाधवो नमस्कारेणोक्ताः । धर्म उच्यते । आत्मानमिष्टनरेंद्रसुरेंद्रमुनींद्रमुक्तिस्थाने धत्त इति धर्मः । अथवा संसारस्थान्प्राणिनो धरते धारयतीति वा धर्मः । स च सागाराऽनगारविषयभेदाद्विविधः । तत्र सागारधर्म उच्यते । दार्शनिकवतिकावपि सामायिकप्रोषधोपवासश्च । सचित्तरात्रिभुक्तिव्रतनिरतौ ब्रह्मचारी च ॥ आरंभाद्विनिवृत्तः परिग्रहादनुमतस्तथोद्दिष्टः । इत्येकादशनिलया जिनोदिताः श्रावकाः क्रमशः ॥ व्रतादयो गुणा दर्शनादिभिः पूर्वगुणैः सह क्रमप्रवृद्धा भवति । तत्र दार्शनिकः संसारशरीरभोगनिर्विणः पंचगुरुचरणभक्तः सम्यग्दर्शनविशुद्धश्च भवति । जिनेन भगवताऽर्हता परमेष्ठिनोपदिष्टे निर्ग्रथलक्षणे मोक्षमार्गे श्रद्धानं सम्यग्दर्शनम् । तस्य सम्यग्दर्शनस्य मोक्षपुरपथिकपाथेयस्य मुक्तिसुंदरीविलासमणिदर्पणस्य संसारसमुद्रगर्तावतमन्नजनदत्तहस्तावलंबनस्यैकादशोपासकस्थानप्रासादाधिष्ठानस्योत्तमक्षमादिदशकुलधर्मकल्पपादपमूलस्य परमपावनस्य सकलमंगलनिलयस्य मोक्षमुख्यकारणस्याष्टांगानि भवंति । निःशंकितत्त्वं निःकांक्षता निर्विचिकित्सता अमूढदृष्टित्त्वं उपबंहणं स्थितिकरणं वात्सल्यं प्रभावना चेति । तत्रेहलोक: परलोकः व्याधिमरणं अगुप्तिः अत्राणं आकस्मिक इति सप्तविधाद्भयाद्विनिर्मुक्तता, अथवाऽहंदुपदिष्टद्वादशांगप्रवचनगहने एकमक्षरं पदं वा किमिदं स्याद्वा Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy