________________
नमो निग्रंथगुरुभ्यः। श्रीमच्चामुंडरायप्रणीतः। चारित्रसारः।
e:
मंगलाचरणम् । अरिहननरजोहननरहस्यहरं पूजनार्हमहन्तम् । सिद्धान्सिद्धाष्टगुणान् रत्नत्रयसाधकान् स्तुवे साधून् । श्रीमजिनेन्द्रकथिताय सुमंगलाय लोकोत्तमाय शरणाय विनेयजतोः । धर्माय कायवचनाशयशुद्धितोऽहं स्वर्गापवर्गफलदाय नमस्करोमि ।। धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्चिन्वते ।
धर्मेणैव समाप्यते शिवसुखं धर्माय तस्मै नमः ॥ धर्मान्नास्त्यपरः सुहृद्भवभृतां धर्मस्य मूलं दया ।
धर्मे चित्तमहं दधे प्रतिदिनं हे धर्म ! मां पालय ।। १ मोहनीयज्ञानदर्शनावरणान्तरायनष्टारम्। २ ' शरणं गृहरक्षित्रो' इत्यमरः। ३ अनाखिलकारकसमावेशः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org