________________
चारित्रसारे
नाविधकरंबितशब्दानां युगपदुत्पन्नानां तपोविशेषबलला भाऽऽपादितसर्वजीवंप्र देशप्रकृष्ट श्रोत्रेन्द्रियपरिणामात्सर्वेषामेककाले ग्रहणं तत्प्रतिपादनसमर्थत्वं च संभिन्न श्रोतृत्वं । तपःशक्तिविशेषाऽऽविर्भावितासाधारणरसनेन्द्रियश्रुतावरणवीर्यान्तरायक्षयोपशमांगोपांगनामलाभापेक्षस्यावधृतनवयोजनक्षेत्राद्वहिर्वहुयेोजनविप्रकृष्टक्षेत्रादायातस्य रसस्यास्वादनसामर्थ्यं दूरास्वादनमेवं शेषेष्वपीन्द्रियविशेषेष्वधृतक्षेत्राइहिर्बहुयोजनविप्रकृष्टदेशादायतेषु ग्रहणसामर्थ्य योज्यं । रोहिण्यादि - पंचशतमहाविद्यादेवताभिरनुगतांगुष्ठप्रदेशना दिसप्तशतक्षुल्लक विद्यादेवताभिस्ताभिरागताभिः प्रत्येकमात्मीयरूपसामर्थ्याविष्करणकथनकुशलाभिर्वेगवतीभिरचलितचारित्रस्य दशपूर्वदुस्तरसमुद्रोत्तारणं दशपूर्वित्वं श्रुतकेवलिना चतुर्दशपूर्वित्वं । अष्टौ महानिमित्तान्यांतरिक्ष भौमांगस्वरव्यंजनलक्षणच्छिन्नस्वप्ननामानि । तत्र रविश शिग्रहनक्षत्रताराभगणोदयास्तमयादिभिरतीतानागतफलप्रतिभागप्रर्दशनमांतरिक्ष
९४
1
1
भुवोद्यन सुषिरस्निग्धरूक्षादिविभावनेन पूर्वादिदिक्सूत्र विन्यासेन वा वृद्धिहानिजयपराजयादिविज्ञानं भूमेरंतर्निहितसुवर्णरजतादिसंस्तवनं च भौमं । तिर्यङ्मनुष्याणां सत्वसभाववातादिप्रकृतिरसरुधिरादिधातुशरीरवर्णगन्धनिम्नोन्नतांगप्रत्यंगदर्शन स्पर्शनादिभिस्त्रिकालभावि सुखदुःखादिविभावनमंगं । नरनारीखरपिंगलोलककपिवायस शिवाशृगाला दीनामक्षराऽनक्षरात्मकशुभाशुभशब्दश्रवणेनेष्टानिष्टफला विर्भावकः स्वरः । शिरोमुखग्रीवादिषु तिलकमशकलक्ष्मत्रणादिवक्षणेन त्रिकाल - हिताहितवेदनं व्यंजनं । पाणिपादतलवक्षःस्थलादिषु श्रीवृक्षस्वस्तिक मंगारककर शकुलिशादिलक्षणवीक्षणात् त्रैकालिकस्थानमानैश्वर्यादिवि
Jain Education International
For Private & Personal Use Only
·
www.jainelibrary.org