________________
अनगारधर्मे-तपोवर्णनम् ।
शेषणं लक्षणं । वस्त्रशस्त्रोपानदासनशयनादिषु देवमानुषराक्षसकृतविकिट्टपाषाणजात्यकनकवल्लब्धात्मस्वभावस्तदनंतरं पूर्वप्रयोगादाविद्धकुलालचक्रवदसंगत्वादपगतलेपालांबुवत्तथाबंधच्छेदादरंडवजिवत्तथागतिपरिणामादग्निशिखावदूर्द्ध गच्छतीत्यालोकांताद्गत्युपग्रहकारणधर्मास्तिकायाऽभावादलोकं न गच्छति । एवमुक्तधर्म्यशुक्लयो राद्धांतसद्भावविषयसामान्ययोर्विषयं प्रत्यभेदः, अयं तु विशेषः । धर्मध्यानं सकषायपरिणामस्यैकस्मिन्वस्तुनि चिरकालं न तिष्ठति रथ्याऽवस्थित. प्रदीपवत् । शुक्लध्यानं पुनतिरागपरिणामस्यैकस्मिन् वस्तुनि धर्मध्यानावस्थानकालात्संख्येयगुणमचंचलत्वादवतिष्ठते मणिप्रदीपवत् ।
एवमुक्तं द्वादशविधं तपः सर्वार्थसाधनं, तत एव हि ऋद्धयः संजायते । ताश्चर्द्धयो बुद्धिक्रियाविक्रियातपोवलौषधरसक्षेत्रभेदादष्टविधाः । तत्र बुद्धिमहर्द्धिनाम बुद्धिरवगमो तद्विषया बुद्धिऋद्धिरष्टादशविधा । केवलमवधिमनःपर्ययज्ञानं बीजबुद्धिः कोष्ठबुद्धिः पादानुसारित्वं संमिन्नश्रोतृत्वं दूराऽऽस्वादनस्पर्शनघ्राणदर्शनश्रवणसमर्थता दशपूर्वित्वं चतुर्दशपूर्वित्वं चाष्टांगमहानिमित्तज्ञता प्रज्ञाश्रवणत्वं प्रत्येकबुद्धिता वादित्वं चेति । तत्र द्रव्यक्षेत्रकालभावकरणक्रमव्यवधानाऽभावे युगपदेकस्मिन्नेव समये त्रिकालवर्तिसर्वद्रव्यगुणपर्यायपदार्थावभासकं केवलज्ञानं । द्रव्यक्षेत्रकालभावैः प्रत्येक विज्ञायमानदेशपरमसर्वभेदभिन्नमवधिज्ञानाऽऽवरणक्षयोपशमनिमित्तं रूपिद्रव्यविषयमवधिज्ञानं । द्रव्यादिभेदैः प्रत्येकमवगम्यमान*विपुलमतिविकल्पं मनःपर्ययज्ञानावरणक्षयोपशमकारणं रूपिद्रव्यानंतभागविषयं मनःपर्ययज्ञानं । सुकृष्टवसुमतीकृते क्षेत्रे सारवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org