________________
९६
चारित्रसारे
कालादिसहायापेक्षं बीजमेकमुप्तं यथाऽनेककोटिबीजप्रदं भवति तथा नो-इन्द्रियश्रुतावरणवीर्यान्तरायक्षेयापशमप्रकर्षे सति संख्येयशब्दस्यानंतार्थप्रतिबद्धस्यानंतलिंगैः सहैकपदस्य ग्रहणादनेकार्थप्रतिपत्तिजत्रुद्धिः । कोष्ठाऽगारिकस्थापितानामसंकीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठावस्थानं तथा परोपदेशादवधारितानामर्थग्रंथबीजानां भूयसामव्यतिकीर्णानां बुद्धयवस्थानं कोष्ठबुद्धिः । पादानुसारित्वं त्रेधा प्रतिसार्यनुसार्युमयसारिभेदात् । तत्र बीजपदादधःस्थितान्येव पदानि बीजपदस्थितिलिंगेन जानाति भागैः शस्त्रकंटक - मूषिकादिकृतच्छेददर्शनात् कालत्रयविषयलाभालाभसुखदुःखादिसंस्तवनं छिन्नं । वातपित्तश्लेष्मोदयरहितस्य पश्चिमरात्रिविभागे चन्द्रसूर्यधराद्रिसमुद्रमुखप्रवेशनस कलमहीमंडलोपगूहनादिशुभस्वप्नदर्शनात् घृततैलाभ्यक्तात्मीयदेहखरकर भारूढापाग्दिग्गमनाद्यशुभस्वप्नदर्शनादागामिजीवितमरणसुखदुःखाऽऽविर्भाविकः स्वप्नः । स च द्विविधः; छिन्नमालाविकल्पेन । गजेन्द्रसिंह पोतादिकैश्छिन्नः । पूर्वापरसंबंधानां भावानां दर्शनं माला । एतेषु महानिमित्तेषु कौशलमष्टांगमहानिमित्तज्ञता ।
अतिसूक्ष्मार्थतत्त्वविचारगहने चतुर्दशपूर्विण एव विषयेऽनुपयुक्ते पृष्टेऽनधीतद्वादशांगचतुर्दश पूर्वस्य प्रकृष्टश्रुतावरणवर्यािन्तरायक्षयोपशमाविर्भूताऽसाधारणप्रज्ञाशक्तिलाभान्निःसंशयनिरूपणं प्रज्ञाश्रवत्वं । सा च प्रज्ञौत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी चेति चतुर्विधा । तत्र जन्मांतर विनयजनितसंस्कारसमुत्पन्नोत्पत्तिकी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org