________________
अनगारधर्मे-तपोवर्णनम् ।
विनयेन द्वादशांगानि पठतः समुत्पन्ना वैनयिकी। दुश्वरतपश्चरणबलेन गुरूपदेशमंतरेण समुत्पन्ना कर्मना । स्वकीयस्वकीयजातिवि शेषेण समुत्पन्ना पारिणामिकी चेति ।
परोपदेशमन्तरेण स्वशक्तिविशेषादेव ज्ञानसंयमविधाने नैपुण्यं प्रत्येकबुद्धिता।
शक्रादिष्वपि प्रतिबंधकेषु सत्स्वतिप्रतिहततया प्रतिभया निरु त्तराभिधानं पररंध्रान्वेषणं च वादित्वं । इति बुद्धिऋद्धिप्रकरणम् । ___ अथ क्रियर्द्धिः । क्रियाविषया ऋद्धिर्द्विविधा, चारणत्वमाकाशगामित्वं चेति । तत्र चारणाऽनेकविधा, जलजंघातंतुपुष्पपत्रबीनश्रेण्यग्निशिखाद्यालंबनगमनाः । जलमुपादाय वाप्यादिष्वप्कायिकजीवानविराधयंतो भूमाविव पादोद्धारनिक्षेपकुशला जलचारणाः । भमेरुपर्याऽऽकाशे चतुरंगुलप्रमाणे जंघोत्क्षेपनिक्षेपशीघ्रकरणपटवो बहुयोजनशताऽऽशुगमनप्रवणा जंघाचारणाः। एवमितरे बोद्धव्याः॥ पर्यकावस्था वा निषण्णा वा कायोत्सर्गशरीरा वा पादोद्धारनिक्षेपणा वा ताभ्यामंतरेण वाऽऽकाशंगमनकुशला आकाशगामिनः । इति किद्धिः ।
विक्रियागोचरा ऋद्धिरनेकविधा । अणिमा, महिमा, लघिमा, गरिमा, प्राप्तिः, प्राकाम्यं, ईशत्वं, वशित्वं अप्रतिघातः, अंतर्धानं, कामरूपित्वमादि। तत्राऽणुशरीरविकरणमणिमा। विसच्छिद्रमपि प्रविश्याऽऽसीत तत्र चक्रवर्तिपरिवारविभूति सृजेत् । मेरोरपि महत्तरशरीरविकरणं महिमा । वायोरपि लघुतरशरीरता लघिमा । वज्रादपि गुरुतरदेहता गरिमा । भूमौ स्थित्वांऽगुल्यमेण मेरुशिखरदिवाकरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org