SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चारित्रसारे दिस्पर्शनसामर्थ्य प्राप्तिः । अप्सु भूमाविव गमनं भूमौ जल इवोन्मजननिमज्जनकरणं प्राकाम्य, अनेकजातिक्रियागुणद्रव्याधीनं स्वांगाद्भिन्नमभिन्नं च निर्माणं प्राकाम्यं सैन्यादिरूपमिति केचित् । त्रैलोक्यस्य प्रभुत्वमीशित्वं । सर्वनीववशीकरणलब्धिर्वशित्वं । अद्रिमध्ये वियतीव गमनमप्रतिघातः । अदृश्यरूपतांऽतर्धानं । युगपदनेकाऽऽकाररूपविकरणशक्तिः कामरूपित्वमिति, यथाऽभिलषितैकमूर्ताकारं स्वांगस्य मुहर्मुहुः करणं कामरूपित्वमिति वा । इति विकिद्धिप्रकरणम् । ___ तपोऽतिशयर्द्धिः सप्तविधा । उग्रदीप्ततप्तमहाघोरतपोघोरपराक्रमाः घोरब्रह्मचर्यः अघोरगुणब्रह्मचारिण इति । तत्रोग्रतपसो द्विविधा; उप्रोग्रतपसः, अवस्थितोग्रतपसश्चेति । तत्रैकमुपवासं कृत्वा पारणं विधाय द्विदिनमुपोष्य तत्पारणानन्तरं पुनरप्युपवासत्रयं कुर्वत्येवमेकोत्तरवृद्धया यावज्जीवं त्रिगुप्तिगुप्ताः संतो ये केचिदुपवसंति त उग्रोग्रतपसः । दीक्षोपवासं कृत्वा पारणानंतरमेकांतरेण चरतां केनाऽपि निमित्तेन षष्ठोपवासे जाते तेन विहरतामष्टमोपवाससंभवे तेनाचरतामेवं दशद्वादशादिक्रमेणाधो न निवर्तमानानां यावज्जीवं येषां विहरणं तेऽवस्थितोग्रतपसः । महोपवासकरणेऽपि प्रवर्द्धमानकायवाङ्मनोबला दुर्गधरहितवदनाः पद्मोत्पलादिसुरभिनिःश्वासाः प्रतिदिनप्रवर्द्धमानाऽप्रच्युतमहादीप्तिशरीरा दीप्तमनसः । तप्तायसकटाहपतितजलकणवदाशु शुष्काल्पाऽऽहारतया धारणेऽपि श्रमक्लेशविरहितास्त्रिभुवनमपि कनीयस्यांगुल्योत्याऽन्यत्र स्थापयितुं समर्थाश्च कायबलिनः । इति बलर्द्धिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy