________________
अनगारधर्मे-तपोवर्णनम्। ९९ ___ अथौषधर्द्धिप्रकरणम् । औषद्धिरष्टविधा । असाध्यानामप्याम यानां सर्वेषां विनिवृत्तिहेतुरामर्शक्षेलजल मलविट्सौषधिप्राप्ताssस्याविषयदृष्टयविषविकल्पात् । आमर्शः संस्पर्शो हस्तपादाद्यामर्शः सकलौषधि प्राप्तो येषां त आमीषधिप्राप्ताः । क्षेलो निष्टीवनं; उपलक्षणं चैतत्तेन श्लेष्मलालावि सिंहाणकादयश्वौषधि प्राप्ता येषां ते क्षेलौषधिप्राप्ताः । स्वेदालंबनो रजोतिचयो जल्लः स औषधि प्राप्तो येषां ते जल्लौषधिप्राप्ताः । कर्मदंतनासिकादिसमुद्भवो मल औषधि प्राप्तो येषां ते मलौषधिप्राप्ताः । विडुच्चारः शुक्रमूत्रं चौषधिं प्राप्तो येषां ते विडौषधिप्राप्ताः । अंगप्रत्यंगनखदंतकेशादिरवयवस्तत्संस्पर्शी वाटवादिः सर्वौषधि प्राप्तो येषां ते सौषधिप्राप्ताः । उग्र. विषसंपृक्तोऽप्याहारो येषामास्यगतो निर्विषो भवति, यदीयवचः श्रवणाद्वा महाविपरीता अपि निर्विषां भवंति त आस्याविषाः । येषामालोकनमात्रादेवातितीव्रविषदूषिता अपि विगतविषा भवंति ते दृष्टयविषाः । अथवा आशीविषमविषं येषां ते आश्यविषाः, दृष्टिविषाणां विषमविषं येषां ते दृष्टयविषाः । इत्यौषधद्धिप्रकरणम् ॥ __ अत्र रसर्द्धिप्रकरणं समुच्यते । रसर्द्धिप्राप्ताः षड्डिधाः, आस्यविषाः, दृष्टिविषाः, क्षीरास्त्राविणः, मध्वास्राविणः, सर्पिरास्त्रविणः, अमृताऽऽस्राविणश्चेति । प्रकृष्टतपोबला यतयो यं ब्रुवते म्रियस्वेति स तत्क्षणादेव महाविषपरीतो म्रियते त आस्यविषाः | आशीविषा इति केचित्तत्राप्ययमेवार्थस्तदाऽऽशासनादेव म्रियमाणत्वात् । उत्कृष्टतपसो यतयः क्रुद्धा यमीक्षते स तदैवोपविषपरीतो म्रियते ते दृष्टिविषाः । विरसमण्यशनं येषां पाणिपुटे निक्षिप्तं क्षीररसवीर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org