________________
अनगारधर्मे तपोवर्णनम् ।
९३
योगे स्थित्वा क्रमेण सूक्ष्म मनोवचनोच्छ्रासनिश्वासं निरुध्य सूक्ष्मकाययोगः स्यात्तस्यैव सूक्ष्मक्रियाऽप्रतिपातिध्यानं भवति तच्छुक्कं सामान्येन तृतीयं परमशुक्लाऽपेक्षया प्रथमं । यदा पुनरन्तर्मुहूर्त्तशेषायुष्कस्तदधिकस्थितिकर्मत्रयः सयोगिजिनस्तदात्मोपयोगातिशयः कर्मारातिशातनसमर्थः सामायिकखड्ग सहायो विशिष्टक्रियो महास.. वरसंवृतो लघुकर्मपरिपातनश्च भूत्वा शेषकर्मरेणुपरिशातनशक्तिस्वभावात्समयैकदंडके चतुः समये दंडक पाटलोकप्रतरपूरणाभिः स्वात्मप्रदेशविसर्पणे जाते तावद्भिरेव समयैरुपसंहृतविसर्पण आयुष्यसमीकृताऽघातित्रयस्थितिनिर्वर्त्तितसमुद्धातक्रियः पूर्वशरीरपरिमाणो भूत्वांऽतर्मुहूर्त्तेन पूर्ववत्क्रमेण योगनिरोधं विधाय प्रथमपरमशुक्लध्यानं निष्ठापयन् ततः समये द्वितीय परमशुक्लध्यानं प्रारब्धुमर्हति । तत्पुनरत्यंतपरमशुक्लं समुच्छिन्नप्राणापानप्रचार सर्वकायवाङन।योगप्रदेशपरिस्पंद क्रियाव्यापारतया समुच्छिन्नक्रियानिवतत्युच्यते । तत्र ध्याने सर्वास्त्रवनिरोधे सति सर्वशेषकर्म परिशातनसामर्थ्योत्पत्तिमतोऽयोगिकेवलिनः संपूर्णशीलगुणं सर्वसंसारदुःखज्वालापरिष्वंगच्छेदजननं साक्षान्मोक्षकारणं भवति । स पुनरयोगकेवली भगवांस्तदा ध्यानानलसंनिर्दग्धसर्वमलकलं केन्धनो निरस्त - प्रतिसारि । उपरिस्थितान्येव जानात्यनुसारि । उभयपार्श्वे स्थितानि पदानि नियमेनानियमेन वा नात्युभयसारि । एवमेकस्य पदस्यार्थे परत उपश्रुत्यादावंते मध्ये वाऽशेष ग्रंथार्थावधारणं पदानुसारित्वं । द्वादशयोजनाऽऽयामे नवयोजनविस्तारे चक्रघरस्कंधावारे गजवाजिखरोष्ट्रमनुष्यादीनामक्षरानक्षररूपाणां ना..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org