________________
चारित्रसारे—
क्षीणकषायस्यादावस्ति । तत्र शुक्लतरलेश्याबलाधानमंतमुहूर्त्तकालप'रिवर्त्तनं क्षायोपशमिकभावमुपात्तार्थव्यंजनयोगसंक्रमणं चतुर्दशदशनवपूर्वधारयतिवृषभ निषेव्यमुपशांत क्षीणकषायभेदात् । स्वर्गापवर्गगतिफल संवर्त्तनीयमिति ।
९२
द्वितीयशुक्लध्यानमुच्यते । एकस्य भाव एकत्वं, वितर्को द्वादशांगं, अवीचारोऽसंक्रांतिः । एकत्वेन वितर्कस्य श्रुतस्यार्थव्यंजनयोगानामवीचारोऽसंक्रांतिर्यस्मिन्ध्याने तदेकत्ववितर्कावीचारं ध्यानं । एकयोगेनार्थगुणपर्यायेष्वन्यतमस्मिन्नवस्थानं पूर्ववत्पूर्वधरयतिवृषभनिषेव्यं । द्रव्यभावात्मकज्ञानदर्शनावरणांत रायघातिकर्मत्रयवेदनीयप्रभृत्यघातिकर्मसु केषांचिद्भावकर्मविनाशनसमर्थमुत्तमतपोऽतिशयरूपं पूर्वोक्तक्षीणकषायाविशिष्टकाल भूमि कम शेषार्थव्यं जनयोगसंक्रमणविषयचिन्ताविक्षेपरहितं असंख्यातगुणश्रेणिकर्मनिर्जरणं भवति । एवंविधे द्वितीयशुक्लध्याने घातित्रयविनाशनानन्तरं क्षायिकज्ञानदर्शनसम्यक्त्व चारित्रदानाभभोगोपभोगवीर्यातिशयशक्तिगभस्तिप्रज्वलितकेवलिजिन भास्करोदयो व्यतिक्रान्तछद्मस्थज्ञानदर्शनशरीरभाषान्तःकरणप्रकृतिः संजायते । स खलु केवलिजिनकुंजरो भगवाँस्तीर्थकर इतरो वा कृतकृत्यः सिद्धसाध्यो बुद्धबोध्योऽत्यंताऽपुनर्भवलक्ष्मीपरिष्वक्तात्माऽचिन्त्यज्ञानवैराग्यैश्वर्यमाहात्म्यः सर्वलोकेश्वराणामभिगमनीयोऽर्चनीयोऽभिवंद्यश्चोत्कर्षेण देशोनपूर्वकोटिकालं विहरति सयोगिभट्टारकः स यदांतर्मुहूर्त्तशेषायुष्कः समस्थितिवेद्यनामगोत्रश्च भवति तदा वादरकाययोगे स्थित्वा क्रमेण वादरमनोवचनोच्छ्रासनिःश्वासं वादरकाययोगं च निरुध्य ततः सूक्ष्मकाय
Jain Education International
For Private & Personal Use Only
•
www.jainelibrary.org