________________
अनगारधर्मे तपोवर्णनम् ।
९१
तत्वं बाह्यं, तदनुमेयं परेषामात्मनः स्वसंवेद्यमाध्यात्मिकं तदुच्यते । पृथक्त्वं नानात्वं, वितर्कों द्वादशांगश्रुतज्ञानं, वीचारोऽर्थव्यंजनयोगसंक्रांतिः, व्यंजनमभिधानं, तद्विषयोऽर्थः मनोवाक्काय लक्षणो योगः, अन्येऽन्यतः परिवर्त्तनं संक्रांतिः । पृथक्त्वेन वितर्कस्यार्थव्यंजन योगेषु संक्रांतिवीचारो यस्मिन्नस्तीति तत्पृथक्त्ववितर्कवीचारं प्रथमं शुक्लं । तद्यथा - अनादिसंभूतदीर्घ संसारस्थितिसागरे पारं जिगमिषुर्मुमुक्षुः स्वभावविजृंभितपुरुषाकारसामर्थ्याद्द्रव्यपरमाणुं भावपरमाणुं वैकमवलंब्य संहृताऽशेषचिताविक्षेपो महासंवरसंवृतः कर्मप्रकृतीनां स्थित्य - नुभागो ह्रासयन्नुपशमयन् क्षपयँश्च परमबहुकर्मनिर्जरस्त्रिषु योगे - ध्वन्यतमस्मिन्वर्त्तमान एकस्य द्रव्यस्य गुणं वा पर्याय वा बहुनयगहन निलीनं श्रुतरविकिरणोद्योतबलेनान्तर्मुहूर्त्तकालं ध्यायति, ततः परमर्थान्तरं संक्रामत्यथ वाऽस्यैवार्थस्य गुणं वा पर्यायं वा संक्रामति पूर्वयोगायोगान्तरं व्यंजनाद् व्यंजनान्तरं संक्रामति इति । अर्थार्थान्तरगुणगुणान्तर पर्यायपर्यायान्तरेषु योगत्रयं संक्रमणेन तस्यैव ध्यानस्य द्वाचत्वारिंशद्धंगा भवन्ति । तद्यथा - षण्णां जीवादिपदार्थानां क्रमेण ज्ञानवर्णगतिस्थितिवर्त्तनाऽवगाहनादयो गुणास्तेषां विकल्पाः पर्यायाः । अर्थादन्योऽर्थोऽर्थान्तरं गुणादन्यो गुणान्तरं पर्यायादन्यः पर्यायान्तरं । एवमर्थार्थान्तरगुणगुणांतरपर्याय पर्यायान्तरेषु षट्सु योगत्रयसंक्रमादष्टादश भंगाः । अर्थाद्गुणगुणांतर पर्यायपर्यायान्तरेषु चतुर्षु योगत्रय संक्रमणेन द्वादश भंगा भवन्ति । एवमर्थान्तरस्यापि द्वादश भंगा भवन्ति । सर्वे संपिंडिता द्वाचत्वारिंशद्धंगा भवन्ति । एवंविधं प्रथमशुक्लध्यानमुपशांतकषायेऽस्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org