________________
चारित्रसारे—
अथाऽऽज्ञाविचयस्वरूपाद्युच्यते । आज्ञाविचयमतीन्द्रियज्ञानविषयं विज्ञातुं चतुर्षु ज्ञानेषु बुद्धिशक्त्यभावात्परलोकबंधमोक्ष लोकालोकसदसद्विवेक वृद्धिप्रभावधर्माधर्मकालद्रव्यादिपदार्थेषु सर्वज्ञप्रामाण्यात्तत्प्रणीताऽऽगमकथितमवितथं नान्यथेति सम्यग्दर्शनस्वभावत्वानिश्चयचिंतनं नवमं धर्म्यम् ।
अथ हेतुविचयस्वरूपमुच्यते । हेतुविचयमागमविप्रतिपत्तौ नयविशेषगुणप्रधानभावापनयदुर्धर्षस्याद्वादप्रतिक्रियाऽवलंबिनस्तर्कानु
सारिरुचेः
पुरुषस्य
स्वसमयगुणपरसमयदोषविशेष परिच्छेदेन यत्र गुणप्रकर्षस्तत्राऽभिनिवेश: श्रेयानिति स्याद्वादतीर्थकर प्रवचने पूर्वापर विरोधहेतुपरिग्रहणसामर्थ्येन समवस्थानगुणानुचिंतनं हेतुविचयं दशमं धर्म्यम् |
सर्वमेतद् धर्मध्यानं पीतपद्मशुक्ललेश्याबलाधानमविरतादिसरागगुणस्थानभूमिकं द्रव्यभावात्मक सप्तप्रकृतिक्षयकारणं । आ अप्रमत्तादन्तर्मुहूर्त्त कालपरिवर्त्तनं परोक्षज्ञानत्वात् क्षायोपशमिकभावं स्वर्गापवर्गगतिफल संवर्त्तनीयं । शेषैकविंशतिद्रव्यभावलक्षणमोहनीयोपशमक्षयनिमित्तमिति ।
शुक्लध्यानं द्विविधं; शुक्लं, परमशुक्लमिति । शुक्लं द्विविधं पृथकृत्ववितर्कवीचा रमेकत्ववितर्कावी चारमिति । परमशुक्लं द्विविधं; सूक्ष्मक्रियाऽप्रतिपातिसमुच्छिन्नक्रियानिवर्त्तिभेदात् । तलक्षणं द्विविधं बाह्यमाध्यात्मिकमिति । गात्रनेत्रपरिस्पन्दविरहितं जंभजुंभोद्गारादिवर्जितमनभिव्यक्तप्राणापानप्रचारत्वमुच्छिन्नप्राणापानप्रचारत्वमपराजि
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org