________________
अनगारधर्मे-तपोवर्णनम् । इत्येवं सर्वलोको निरन्तरं निचितः स्थावरैस्ततस्तत्र वालुकास मुद्रे पतितवज्रसिकताकणिकेव त्रसता दुर्लभास्तत्र च विकलेंद्रियाणां प्रचुरभूयिष्ठत्वात्पंचेंद्रियता गुणेषु कृतज्ञतैव कृच्छ्रलभ्या । तत्र च तिर्यक्षु पशुमृगपक्षिसरीसृपादिषु बहुषु सत्सु मनुष्यभवश्चतुष्पथे रत्नराशिवदासदस्तत्प्रच्यवे पुनस्तदुपपत्तिर्दग्धा तरुपुद्गलतद्भावाऽऽपत्तिवदुर्लभा । तल्लाभे च कुदेशानां हिताहितविचारविरहितानां पशुसमानमानवाकीर्णानां बहुत्वात्सुप्रदेशः पाषाणेषु मणिरिव न सुलभः । लब्धेऽपि सुदेशे पापकर्मजीवकुलाकुलत्वात्कुले जन्म वृद्धोपसेवाविरहिते विनयवत्कृच्छलभ्यं । लोकस्य कुले हि जातिः प्रायेण शीलविनयाचारसंपत्तिकरी भवति । सत्यामपि कुलसंपदि दीर्घायुरिन्द्रियबलरूपनीरोगत्वादीनि दुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सद्ध. मप्रतिलंभो यदि न स्यात् व्यर्थं जन्म वदनमिव दृष्टिविकलं । तमेवमतिदुर्लभं सद्धर्म कथं कथमप्यवाप्य विषयसुखे रंजनं भस्मार्थ चन्दनदहनमिव विफलं । विरक्तविषयसुखस्य तपोभावनाधर्मप्रभाव. नासुखमरणादिलक्षणः समाधिदुर्लभस्तस्मिन्सति बोधिलाभः फलवान् भवतीति चिंतनं बोधिदुर्लभत्वाऽनुप्रेक्षा । एवमस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति । इति बोधिदुर्लभाऽनुप्रेक्षावर्णनं।
अथ धर्मस्वाख्याताऽनुप्रेक्षावर्णनं विधीयते । चतुर्दशगुणस्थानानां गत्यादिचतुर्दशमार्गणास्थानेषु स्वतत्त्वविचारलक्षणो धर्मः । निःश्रेयसप्राप्तिहेतुरहो भगवद्भिरर्हद्भिः स्वाख्यात इति चिंतनं धर्मस्वाख्यातत्वाऽनुप्रेक्षा । एवमस्य चिंतयतो धर्मानुरागः सदा प्रतिपन्नो भवति । इत्येवं चिन्तनं संस्थानविचयमष्टमं धर्म्यम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org