________________
चारित्रसारे
निरनुबंधा चेत्येवं निर्जराया गुणदोषभावनं निर्जराऽनुप्रेक्षा । एवमस्याऽनुस्मरतः कमीर्नजरायै वृत्तिर्भवति । इति निर्जराऽनुप्रेक्षावर्णनम् । ___ अथ लोकाऽनुप्रेक्षावर्णनं विधीयते । जीवादिपदार्थाधिकरणं लोकः समन्तादनंतानंतस्वात्मप्रतिष्ठाऽऽकाशसुबहुमध्यप्रदेशस्थितस्तनुवातघनानिलघनोदधिवेष्टितो लोकस्तन्मध्यगता त्रसनाडी, तन्मध्ये महामेरुस्तस्याधः स्थिता नरकप्रस्तारा, मेरुपरिवृताः शुभना. मानो द्वीपसमुद्रा विििर्वष्कंभा वलयाकृतयो, मेरोरुपरि स्वर्गपटलानि, तेषामुपरि सिद्धक्षेत्रं । एवमधस्तिर्यगूद्धभेदभिन्नस्य चतुर्दशरज्जूत्सेधस्य सप्तैकपंचैकरज्जुप्रसृतपूर्वापरविभागस्य सप्तरज्जुविस्तारदक्षिणोत्तरदिग्भागस्य वेत्रासनझल्लरीमृदंगसमानाऽऽकारस्य षट्द्रव्यनिचितम्याकृत्रिमस्यानादिनिधनस्य लोकस्य स्वभावपरिणामपरिणाहसंस्थानाऽनुचिंतनं लोकाऽनुप्रेक्षा । एवमस्याध्यवस्यतस्तत्त्वज्ञानविशुद्धिर्भवति । इति लोकानुप्रेक्षावर्णनम् ।।
अथ बेधिदुलभाऽनुप्रेक्षावर्णनं विधीयते । स्कन्धांडराऽऽवासपुलविशरीरेषु स्कंधा असंख्यातलोकमात्रा, एकैकस्मिन् स्कंधेऽसंख्यातलोकमात्रा अंडरा, एकैकस्मिन्नंडर आवासा असंख्यातलोकमिताएकैकमिन्नावासे पुलयोऽसंख्यातलोकप्रमाणा, एकैकस्मिवन्पुलवौ असंख्यातलोकप्रमितानि शरीराण्येकैकस्मिन्निगोदशरीरे जीवाः सर्वातीतकालसिद्धानामनंतगुणाः । उक्तं च ।
एयनिओयसरीरे जीवा दव्वपमाणदो दिवा। सिद्धेहिं अणंतगुणा सव्वेण वितीदकालेण ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org