________________
अनगारधर्मे तपोवर्णनम् ।
ग्रीवो विद्याधरचक्रवर्त्ती त्रिखंडाधिपतिः सपुत्रः सबांधवो निधनतामुपगतः । तथा च रसनेन्द्रियघ्राणेन्द्रियलोलुपः सुभूमः सकलचक्रवर्त्ती षट्खंडाधिपतिर्वणिग्वेषधारिणा जन्मान्तरवैरिणा समुद्रमध्ये मरणमुपगतः । तथा च वर्वरीचिलातिकानृत्यावलोकन विहिताऽऽसक्तिदमितारिरर्द्धचक्रवर्त्ती सकलपरिजनसमेतो विराममुपजगाम । तथा च हस्तिपकमधुरगीतरवश्रवणसंसक्तमतिरमृतमतिर्यशोधर महाराजमहादेवी स्वकुलपरिभ्रष्टा कुष्ठाधिष्ठितशरीरा मृतिमुपगम्य नरकदुःखभागिनी बभूव । एवमेकैकन्द्रियविषयैर्विष समैस्तथाविधा अपि विनष्टाः किं पुनः पंचेन्द्रियविषयाभिलाषिण इत्येवमाद्यास्रवदोषाऽनुचिन्तनमास्रवाऽनुप्रेक्षा । एवमस्य चिन्तयतः क्षमादिधर्मः श्रेयस्त्वबुद्धिर्न प्रच्यवते । सर्वेऽप्येते आस्रवदोषाः कर्मवत्संवृतेंद्रियस्य न भवन्ति । इत्यास्त्रवाऽनुप्रेक्षावर्णनम् ।
1
૭
अथ संवराऽनुप्रेक्षावर्णनं विधीयते । आस्रवनिरोधः संवरः । यथा वणिङ्महार्णवे यानपात्रविवरद्वार जलास्त्रवपिधाने निरुपद्रवमभिलषितदेशान्तरं प्राप्नोति तथा मुनिरपि संसारार्णवे शरीरपोतस्येन्द्रियविषयद्वारकर्मजलास्रवं तपसा पिधाय मुक्तिवेलापत्तनं निर्विघ्नं प्राप्नोति इत्येवं संवरगुणाऽनुचिंतनं संवराऽनुप्रेक्षा । एवमस्य चिन्तयतः संवरे नित्योद्युक्ता भवति । इति संवराऽनुप्रेक्षावर्णनम् ।
Jain Education International
-
अथ निर्जराऽनुप्रेक्षावर्णनं विधीयते । कर्मैकदेशगलनं निर्जरा, साऽपि द्वेधा, उदयोदीरणाविकल्पात् । तत्र नरकादिषु कर्मफलविपाकोदयोद्भवा । परीषहजयोदुदीरणोद्भवा । सा शुभाऽनुबंधा
For Private & Personal Use Only
www.jainelibrary.org