________________
चारित्रसारे
चित्वाऽनुप्रेक्षा । एवमस्य संस्मरतः शरीरनिर्वेदो भवति निर्विण्णश्च जन्मोदधितरणाय चित्तं समाधत्त इत्यशुचित्वाऽनुप्रेक्षावर्णनम् ।
अथाऽस्रवाऽनुप्रेक्षावर्णनं विधीयते । उद्वेगार्थमास्रवोपक्षेपः, आस्रवा हीहाऽमुत्र चापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियादयः । अविरलसरलशल्लकीसहकारवंशकुंडगप्रमथनस्वच्छसरोवरसलिलावगाहनमृदुसुखस्पर्शिमहीतलविहरणादिगुणसंपन्ना वनविहारिणो मदांधा महाकाया बलवन्तोऽपि वारणा हस्तिबंधकीषु स्पर्शनेन्द्रियप्रसक्तचित्ता मनुष्यविधेयतामुपगम्य वधबन्धदमनवाहनांकुशताडनपार्णिघातादिजनितं तीव्र दुःखमनुभवन्ति । नित्यमेव च स्वयूथस्वच्छन्दप्रचारसुखस्य वनवासस्याऽनुस्मरन्तो महान्तं खेदमवाप्नुवन्ति । तथैव जिह्वेन्द्रियाविषयलोभात् स्रोतोवेगावगाहिमृतहस्तिशरीरस्था वायसा अपारसागरावर्तान्तिःपातव्यसनमुपनिपतन्ति । मत्स्याश्चागाधसलिलसंचारिणो लोचनगोचरातीता रसनेन्द्रियवशंगता आमिषलोभेन लोहमास्वाद्य म्रियन्ते । घ्राणेन्द्रियलोलुपाश्चौषधगंधलुब्धपन्नगा विनिपातमिच्छन्ति, मधुकराश्च दानगंधलुब्धा गजकर्णझलंझलामुपगम्य मरणमासादयन्ति । चक्षुरिन्द्रियविषयीकृताः प्रदीपावलोकेन लोलाः पतङ्गा व्यसनप्रपाताऽभिमुखा भवन्ति । श्रोत्रेन्द्रियविषयसंगाकृष्टमनसो गीतध्वनिविषंगविस्मृततृणग्रसना हरिणा अनर्थोन्मुखा भवन्ति । परत्र च नानाजातिषु बहुविधदुःखप्रज्वलितासु पर्यटन्ति । तथा स्वयंप्रभाङ्गसंगतसुखस्पर्शलाभलोभाऽऽकृष्टचित्तोऽश्व
स्मरणे षष्ठीविभक्तिरपि भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org