________________
अनगारधर्मे-तपोवर्णनम् ।
८५
अथाऽशुचित्वाऽनुप्रेक्षा-शुचित्वं द्वधा, लोकोत्तरं लौकिकं चेति। तत्राऽत्मनो विशुद्धध्यानजलप्रक्षालितकर्मकलंकस्य स्वात्मन्यवस्थानं लोकोत्तरशुचित्वं, तत्साधनानि सम्यग्दर्शनज्ञानचारित्रतपांसि तद्व. न्तश्च साधवस्तदधिष्ठानानि च निर्वाणभूम्यादिकानि । तत्प्राप्त्युपायत्वाच्छुचिव्यपदेशमर्हन्ति । लौकिकं शुचित्वं कालाऽग्निभस्ममूत्तिकागोमयसलिलाऽज्ञाननिर्विचिकित्सत्वभेदादष्टविधं तदिदं शरीरं शुचीकर्तुं न शक्यते कुतोऽत्यंताऽशुचित्वात् शरीरमिदमाद्युत्तराशुचिकारणादिभिरशुचि लक्ष्यते । तद्यथा-आद्यं तावत्कारणं शरीरस्य शुक्र शोणितं च तदुभयमत्यन्ताऽशुचि। उत्तरकारणमाहारपरिणामादिकवलाऽऽहारोऽपि ग्रस्तमात्रः श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽधिकमशुचि भवति, ततः पित्ताशयं प्राप्य पच्यमान आम्लीकृतोऽशुचिरेव भवति, पक्वो वाताशयमवाप्य वायुना विभज्यमानः खलरसभावेन भिद्यते । खलभागो मूत्रपुरीषादिद्वघनमलविकारेण विविच्यते, रसभागः शोणितमांसमेदोऽस्थिमज्जाशुक्रभावेन परिणमते । सर्वेषां चैषामशुचीनां भाजनं शरीरमवस्करवद्शक्यप्रतीकारं । खल्विदं शरीरं स्नानानुलेपनघूपप्रघर्षवस्त्रमाल्यादिभिरपि न शक्यमशुचित्वमपहत्तै । अंगारवदाश्रितमपि द्रव्यमाश्वे. वाऽऽत्मस्वभावमापादयति । शरीरजा अपि गोमयगोरोचनादन्तिदंतचमरीवालमृगनाभिखङ्गिविषाणमयूरपिच्छसर्पमणिशुक्तिमुक्ताफलादयो लोकेषु शुचित्वमुपगताः । नास्त्यत्र पुनः शरीरे किंचित्कमनीयं शुचि वा न जलादीनां शुचिहेतुत्वं । सम्यग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यंतिकी शुद्धिमाविर्भावयतीति तत्त्वभावनमशु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org