________________
चारित्रसारे--
काष्ठप्रतिमेति स्थापनाभेदः । जीवद्रव्यमनीवद्रव्यमिति द्रव्यभेदः । एकस्मिन्नपि द्रव्ये बालो युवा मनुष्यो देव इत्यादि भावभेदः जीवकर्मणो बंधं प्रत्येकत्वे सत्यपि लक्षणबंधादन्यत्वं, जीवस्तावज्ज्ञानदर्शनोपयोगलक्षणः । वर्णगंधरसस्पर्शवन्तः पुद्गला इति लक्षणकृतो भेदः । प्रतिसमयमनंतानंताः कर्माणको योगवशादागत्य जीवप्रदेशेष्वन्योन्यप्रदेशाऽनुप्रविष्टाः सन्तः कषायवशादवतिष्ठन्ते समयं प्रत्यनंतानंताः कर्मपुद्गला जीवं परित्यज्य प्रच्यवंत इति बंधं प्रति भेदः । नो कर्मपुद्गला अपि बन्धनगुणेन जीवे क्षीरनीरन्यायेनैकबन्धनबद्धा भूत्वा प्रतिक्षणं निर्जीर्यन्ते जीवः स्वयं कर्मवशात्तत्प्रायोग्यशरीरं निर्माय शरीरस्थोऽपि यथा नखरोमदन्तास्थिषु न विद्यते तथा रुधिरवसाशुक्ररसश्लेष्मपित्तमूत्रपुरीषमस्तिष्कादिषु प्रदेशेष्वपि नास्ति एवं कर्मशरीरावयेवभ्यो जीवस्याऽन्यत्वं ततः कुशलपुरुषप्रयोगसन्निधौ शरीरादत्यंतव्यतिरेकेणाऽऽत्मनो ज्ञानादिभिरनंतैरहेयैमुक्ताववस्थानं तदवाप्तप-ऐन्द्रियकं शरीरमतींद्रियोऽहं, अझं शरीरं ज्ञस्वभावोऽहं, अनित्यं शरीरं नित्योऽहं, आद्यन्तवच्छरीरमनाद्यनन्तोऽहं, बहूनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः स एवाऽहमन्यस्तेभ्य इति शरीरादन्यत्वं मे । किमङ्ग पुनर्बाह्येभ्यः परिग्रहेभ्य इति चिन्तनमन्यत्वानुप्रेक्षा । एवमस्य मनः समादधानस्य शरीरादिषु स्पृहा नोत्पद्यते ततश्च श्रेयसे वर्त्तते । इत्यन्यत्वाऽनुप्रेक्षा।
२ 'अङ्ग' इति संबोधनं कोमलाऽऽलापमंत्रणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org