SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे-तपोवर्णनम् । ८३ भवतीत्येवमादिसंसारे स्वभावचिन्तनं संसारानुप्रेक्षा । एवमस्य भावयतः संसारदुःखभयादुद्विग्नस्य ततो निवेदो भवति निर्विण्णश्च संसारप्रहाणाय प्रतियतते । अथैकत्वानुप्रेक्षावर्णनं । जन्मजरामरणाऽऽवृत्तिमहादुःखानुभवनं प्रति सहायानपेक्षत्वमेकत्वं । एकत्वमनेकत्वमेतदुभयं द्रव्यक्षेत्रकालभावविकल्पं । तत्र द्रव्यैकत्वं जीवादिष्वन्यतमद्रव्यविषयत्वेनाऽभेदत्वं । क्षेत्रकत्वं परमाण्ववगाढप्रदेशः । कालैकत्वमभेदसमयः । भावकत्वं मोक्षमार्गः । तथाऽनेकत्वमपि भेदविषयं, न हि किंचिदेकमेव निश्चितमस्ति अनेकमेव वा एकमपि सामान्यार्पणया विशेषार्पणयाऽनेकमपि भवति । तत्र परिप्राप्तबाह्याभ्यंतरोपधित्यागस्य सम्यग्ज्ञानादेकत्वनिश्चयमास्कन्दतः यथाख्यातचारित्रैकवृत्तेर्मोक्षमा भावेनैकत्वं तत्प्राप्तय--एक एवाऽहं न कश्चिन्मे स्वः परो वा विद्यते; एक एव जायत एक एव म्रियते; न मे कश्चिजनः परजनो चा व्याधिजरामरणादीनि दुःखान्यपहरति; बंधुमित्राणि श्मशानं नाsतिवर्तन्ते; धर्म एव मे सहायः सदाऽनपायीति चिन्तनमेकत्वाऽनुप्रेक्षा । एवमस्य भावयतः स्वजनेषु प्रीत्यनुबंधो न भवति, परजनेषु द्वेषानुबंधो नोपजायते, ततो निःसंगताऽभ्युपजायते, ततो निःसंगतो मोक्षोऽवघटते । इत्येकत्वानुप्रेक्षा । . अथाऽन्यत्वाऽनुप्रेक्षाप्रकरणम् । अन्यत्वं चतुर्धा व्यवतिष्ठते, नामस्थापनाद्रव्यभावाऽऽलंबनभेदात् । आत्मा जीव इति नामभेदः । १ इति पाठः ,'क' पुस्तके नाऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy