________________
૮૨
चारित्रसारे
कापर्याप्तकभेदात् । साधारणशरीरा आहारशरीरेन्द्रियोच्छासनिःश्वासपर्याप्त्युत्पादननिमित्तमाहारवर्गणायाः गृहीतपुद्गलपिंडास्तत्र यत्रैको म्रियते जीवस्तत्र मरणमनंतानां यत्रैकश्चोत्पद्यते तत्राऽनंतानामुत्पत्तिर्भवति तेषां लिंगं गूढशिरादि । उक्तं च
साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं ॥१॥ जत्थेकु मरइ जीवो तत्थ दु मरणं भवे अणंताण । चंकमइ जत्थ एक्को चंकमणं तत्थ णंताणं ॥२॥ गूढसिरसंधिपव्वं समभंगमहीरुहं च छिण्णरुहं । साहारणं सरीरं तन्विवरीयं च पत्तेयं ॥३॥ मूले कंदे छल्ली पवालसालदलकुसुमफलबीजे। समभंगे सदिणंता असमे सदि हॉति पत्तेया ॥४॥ कंदस्त व मूलस्स व सखाखंधस्स चावि वहलतरी।
छल्ली साणंतजिया पत्तेयजिया दु तणुकदरी ॥५॥ ते च साधारणशरीराश्चतुर्धा सूक्ष्मवादरपर्याप्तकापर्याप्तकविकल्पात् । द्वित्रिचतुरिन्द्रियाः प्रत्येकं द्वेधा, पर्याप्तकापर्याप्तकविकल्पात्। पंचेन्द्रियाश्चतुर्धा संश्यसंज्ञिपर्याप्तकापर्याप्तकापेक्षयेति ।
भावनिमित्तसंसारो द्वेधा स्वभावपरभावाश्रयात् । स्वभावो मिथ्यादर्शनकषायादिः, परभावो ज्ञानावरणादिकर्मरसादिः । एवमेतस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन्नयं जीवः कर्मयंत्रप्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । किं बहुना स्वयमात्मनः पुत्रो
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
ww