SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे-तपोवर्णनम् । ल्पना, भावान्निरवयवाः, मुख्यप्रदेशकल्पना हि धर्माधर्मजीवाकाशेषु पुद्गलेषु च व्यणुकादिस्कन्धेषु परमाणुषूपचारप्रदेशकल्पना प्रचयशक्तियोगात् । विनाशहेत्वभावान्नित्याः, विविधपरिणामिषट्द्रव्यपर्यायपरिवर्तनहेतुत्वादनित्याः, रूपरसगन्धस्पर्शयोगाभावादमूर्त्ताः, जीवप्रदेशवत्प्रदेशान्तरसंक्रमणाऽभावान्निष्क्रिया इति परमार्थकालः । व्यवहारकालः परमार्थकालवर्तनया लब्धकालव्यपदेशः परिणामादिलक्षणः । कुतश्चित्परिच्छिन्नोऽपरिच्छिन्नस्य परिच्छेद. हेतुः । भूतो वर्तमानो भविष्यन्निति त्रिविधः कालः परस्परापेक्षत्वात् , यथा वृक्षपंक्तिमनुसरतो देवदत्तस्यैकैकं तरुं प्रति प्राप्तप्राप्नुवत्प्राप्सद्व्यपदेशस्तथा तात्कालाणूननुसरतां द्रव्याणां क्रमेण वर्तनापर्यायमनुभवतां भूतवर्तमानभविष्ययवहारसद्भावः । तत्र परमार्थकाले भूतादिव्यवहारो गौणो व्यवहारकाले तु मुख्यः । किमत्र बहुनोक्तेन परमार्थकालेन कारणभूतेन तेन षट् द्रव्याणि परावर्त्यन्ते कार्यरूपाणि । तेषां द्रव्याणां परिच्छेदकाः समयावलिकादयः । द्रव्यस्यैकपर्याय एकसमयो द्वित्रिचतुःसंख्येयासंख्येयानन्तपर्यायकलापाः । द्वित्रिचतुःसंख्येया असंख्येया अनन्तसमया यथा प्रदीपः स्वपरप्रकाशकस्तथैव कालः स्वरप्रवर्तकः, अथवा सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाढाकाशप्रदेशव्यतिक्रमणं कालः परमनिरुद्धो निर्विभागः समय इति कालसंसारः । . भवनिमित्तसंसारो द्वात्रिंशद्विधः पृथिव्यप्तेनोवायुकायिकाः प्रत्येक चतुर्विधाः सूक्ष्मवादरपर्याप्तापर्याप्तभेदात् । वतस्पतिकायिका द्वेधा प्रत्येकशरीराः साधारणशरीराश्चेति । प्रत्येकशरीरा द्वेधा पर्याप्त Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy