________________
८०
चारित्रसारे
शिवपदपरमामृतसुखप्रतिष्ठाऽसंसारः, सयोगकेवलिनश्चतुर्गतिभ्रमणाभावात्संसारान्तःप्राप्त्यभावाच्चेषत्संसारो नो-संसार इति, तत्रितयव्यपायोऽयोगिकेवलिनो भवभ्रमणाभावात् सयोगिकेवलिवत्प्रदेशपरिस्पन्दविगमात्संसारान्तावाप्त्यभावाच्च देहपरिस्पन्दाऽभावेऽपि देहिनः सततं प्रदेशचलनमस्ति, ततः सदा संसार एव सिद्धानामयोगिकेवलिनां च नास्ति प्रदेश चलनं तद्योग्यकर्मसामम्यभावादितरेषां त्रिधाऽवसीयते । स पुनः संसारः, अभव्यापेक्षयाऽनाद्यनिधनः, भव्यसामान्यार्पणयाऽनादिरुच्छेदवान्, भव्यविशेषविवक्षया क्वचित्सादिः सनिधनः । असंसारः सादिरनिधनः । तत्रितयव्यपायोऽन्तमुहूर्तकालः । नो- संसारो जघन्येनान्तर्मुहूर्तः । उत्कृष्टेन देशोनपूर्वकोटिलक्षः । सादिः सपर्यवसानः संसारो जघन्येनाऽन्तर्मुहूर्त्तः । उत्कृष्टेनार्द्धपुद्गलपरावर्त्तनकालः । स च संसारो द्रव्यक्षेत्रकालभवभावभेदात्पंचविधो, द्रव्यनिमित्तः संसारो द्विविधः कर्म-कर्मविवक्षाभेदात्कर्मद्रव्यसंसारो ज्ञानावरणादिविषयो नोकर्मद्रव्यसंसार औदारिकवैक्रिय काऽऽहार कतैजसशरीराणामाहारशरीरेन्द्रियाऽऽनपानभाषामनः पर्याप्तीनां विषयः । क्षेत्रहेतुकः संसारो द्विविधः, स्वक्षेत्र परक्षेत्र विकल्पात् । लोकाकाशतुल्य प्रदेशस्यात्मनः कर्मोदयवशात्संहरण विसर्पणधर्मिणो हीनाधिकाकाशप्रदेश परिमाणावगाहत्वं स्वक्षेत्र संसारः । सम्मूर्च्छन गर्भोपपादजन्मनवयोनिविकल्पाद्यवलंबनः परक्षेत्रसंसारः । परमार्थव्यवहारभेदेन कालो द्विविधः । तत्र यावंतो लोकाकाशप्रदेशास्तावंत: कालाणवः परस्परं प्रत्यबंधा एकै - कस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनो मुख्योपचारप्रदेशक१ "क" पुस्तके "तेजस" इति पाठा नाऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org