________________
अनगारधर्मे तपोवर्णनम् ।
मन्यते, न किंचित्संसारे ध्रुवमस्त्यात्मनो ज्ञानदर्शनोपयोगस्वभावादन्यदिति चिन्तनमनित्यत्वानुप्रेक्षा, एवमस्य चिन्तयतस्तेष्वभिष्वंगाभावाद्भुक्तोज्झितगन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते ।
,
अशरणत्वं शरणं द्विविधं; लौकिक, लोकोत्तरं चेति । प्रत्येकं त्रिविधं जीवाजीवमिश्रकभेदात् । तत्र लौकिकं जीवशरणं राजा देवता, प्राकाराद्यऽजीवशरणं प्राकारान्वितं ग्रामनगराद्रि मिश्रकं । लोकोत्तरं जीवशरणं पंच गुरवस्तत्प्रतिबिंबाद्यऽजीवशरणं सधर्मसाधुवर्गोपकरणं मिश्रकशरणं । यथा मृगशावकस्यैकान्ते वलवता क्षुधितेनामिषैषिणा व्याघ्रेणाभिद्रुतस्य न किंचिच्छरणमस्ति तथा जन्मजराव्याधिप्रियवियोगाप्रिय संयोगेप्सिताऽलाभदारिद्र्यदौर्मनस्यादि - समुत्थितेन दुःखेनाभिभूतस्य जन्तोः शरणं न विद्यते । परिपुष्टमपि शरीरं भोजनं प्रति सहायी भवति न व्यसनोपनिपाते सति । यत्नेन संचिता अप्यर्था न भवान्तरमनुगच्छन्ति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परित्रायन्ते बन्धवः समुदिताश्च रुजा परीतं न परिपान्ति । अस्ति चेत्सुचरितो धर्मों व्यसनमहार्णवे तरणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणं तस्माद्भवव्यसनसंकटे धर्म एव शरणं सुहृदर्थोऽप्यननुयायी नान्यत्किंचिच्छरणमिति भावनमशरणानुप्रेक्षा । एवमस्य भावयतो नित्यमशरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वविगमो भवति, भगवदर्हत्सर्वज्ञप्रणीतागम एव प्रतिपन्नो भवेत् ।
संसारश्च, संसारोऽसंसारो नो-संसारस्तत्रितयव्यपायश्चेति चतुर्वि `धावस्था । तत्र संसारश्चतसृषु गतिषु नानायोनिविकल्पासु परिभ्रमण,
Jain Education International
७९
For Private & Personal Use Only
www.jainelibrary.org