SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७८ चारित्रसार मुत्रिकावीनपातहेतवस्तानि देहिनः सुखानीति मन्यन्ते महादुःखकारणान्यनात्मीयत्वादिष्टान्यप्यनिष्टानीति वैराग्यकारणविशेषानुचिन्तनं पष्ठं धये । भवविचयं सचित्ताचित्तमिश्रशीतोष्णमिश्रसंवृतविवृतमि. श्रभेदासु योनिषु जरायुजाडजपोतोपपादसम्मूर्च्छनजन्मनो जीवस्य भवाद्भवान्तरसंक्रमण इषुगतिपाणिमुक्तालांगलिकागोमूत्रिकाश्चतस्रो गतयो भवन्ति । तत्रेषुगतिरविग्रहैकसामयिकी ऋज्वी संसारिणां सिद्धयतां च जीवानां भवति । पाणिमुक्तकविग्रहा द्विसामयिकी संसारिणां भवति । लांगलिका द्विविग्रहा त्रिसामयिकी। गोमूत्रिका त्रिविग्रहा चतुःसामयिकी भवति । एवमनादिसंसारे संधावतो जीवस्य गुणविशेषानुपलब्धितस्तस्य भवसंक्रमणं निरर्थकमित्येवमादिभवसंक्रमणदोषानुचिंतनं सप्तमं धये । यथावस्थितमीमांसासंस्थानविचयं तद्वादशविधं, अनित्यत्वमशरणत्वं संसार एकत्वमन्यत्वमशुचित्वमास्रवः संवरो निर्जरा लोको बोधिदुर्लभो धर्मस्वाख्यातं इत्यनुपेक्षा । उक्तं हि । समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य । नोदेति नो विनश्यति भवनतया लिंगितो नित्यम् ॥ तत्रानित्यत्वमात्मना रागादिपरिणामात्मना कर्मणो कर्ममावेन गृहीतानि पुद्गलद्रव्याण्यगृहीतानि परमाण्वादीनि तेषां सर्वेषां द्रव्यात्मना नित्यत्वं, पर्यायात्मना सततमनुपरतभेदसंसर्गवृत्तित्वादनित्यत्वमिमानि हि शरीरेन्द्रियविषयोपभोगपरिभोगद्रव्याणि समु. दायरूपाणि जलबुद्धदवदनवस्थितस्वभावानि गर्भादिष्ववस्थाविशेषेषु मटोपलभ्यमानसंयोगविपर्ययाणि मोहोदयादत्राऽज्ञानी नित्यतां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy