________________
अनगारधर्मे - तपोवर्णनम् ।
1
परिवर्जनपरस्य मन्दतरकषायानुरंजितस्य भव्यवरपुंडरीकस्य भवति । तत्रापायविचयं नामानाद्याजवंजवे यथेष्टचारिणो जीवस्य मनोवाक्कायप्रवृत्तिविशेषोपार्जितपापानां परिवर्जनं तत्कथं नाम मे स्यादिति संकल्पश्चित प्रबन्ध प्रथमधर्म्यं । उपायविचयं प्रशस्तमनोवाक्कायप्रवृत्तिविशेषोऽवश्यः कथं मे स्यादिति संकल्पो द्वितीयधर्म्यम् । जीवविचयं जीव उपयोगलक्षणो द्रव्यार्थादनाद्यनन्तोऽसंख्येयप्रदेशः स्वकृतशुशुभाशुभकर्मफलोपभोगी गुणवानात्मोपात्तदेहमात्रः प्रदेशसंहरणविसर्पणधर्मा सूक्ष्मोऽव्याघात उद्भूगतिस्वभावोऽनादिकर्मबन्धनबद्धस्तत्क्षयान्मोक्षभागी गत्यादि-नामादि-निर्देशादि - सदादि प्रमाणनयनिक्षेपविषय इत्यादिजीवस्वभावानुचिन्तनं तृतीयं धर्म्यं । विपाकविचयमष्टविधकर्माणि नामस्थापनाद्रव्यभावलक्षणानि मूलोत्तरोत्तरप्रकृतिविकल्पविस्तृतानि गुडखंडसिताऽमृतमधुरविपाकानि निंबकांजीविषहालाहलकटुकविपाकानि चतुर्विधधानि लतादावस्थिशैलस्वभावानि कासु कासु गतिषु योनिष्ववस्थासु च जीवानां विषया भवन्तीति विपाकविशेषानुचिन्तनं पंचमधर्म्यं, विरागविचयं शरीरमिदमनित्यमपरित्राणं विनश्वरस्वभावमशुचिदोषाधिष्ठितं सप्तधातुमयं बहुमलपूर्णमनवरत निस्यंदितस्रोतोबिलमतिबीभत्समाधेयमशौचमपि पूतिगंधि सम्यग्ज्ञानिजनवैराग्यहेतुभूतं नास्त्यत्र किंचित्कमनीयमिन्द्रियसुखानि प्रमुख रसिकानि क्रियाकमानविरसानि किंपाकपाकविपाकानि पराधीनान्यस्थानप्रचुर भंगुराणि यावद्यावदेषां रामणीयकं तावत्तावद्भोगिनां तृष्णाप्रसंगोऽनवस्यो यथाऽग्नरिन्धनैर्जलनिधेः सरित्सहस्रेण न तृप्तिस्तथा लोकस्याप्येतर्न तृप्तिरुपशान्तिश्चैौहिका
Jain Education International
For Private & Personal Use Only
७७
www.jainelibrary.org