SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७६ चारित्रसारे श्याबलाधानं प्रमादाधिष्ठानं । प्राक्प्रमत्तात्पंचगुणस्थानभूमिकमन्तमुहूर्त्तकालमतःपरं दुर्धरत्वात् क्षायोपशमिकमावं परोक्षज्ञानत्वादौदयिकभावं वा भावलेश्याकषायप्राधान्यान्नरकगतिफलसंवर्तनीयमिति । उभयमप्येतदपध्यानं परिहरन्नपवर्गकामो भिक्षुः परीषहबाधासहिष्णुः शक्तिमदुत्तमसंहननान्वितः प्रशस्तध्यानप्रवणो गिरिगुहादरीकन्दरतरुकोटरसरित्पुलिनपितृवनजीर्णोद्यानशून्यगृहादीनामन्यतमस्मिन् प्रदेशे व्यालपशुमृगषण्ढकमनुष्यादीनामगोचरे तत्रत्यागंतुकजन्तुभिः परिवर्जितेऽत्युष्णातिशीतातिवातातिवर्षातपरहिते समन्तादिन्द्रियमनोविक्षेपहेतुनिराकरणभूते शुचावनुकूलस्पशिनि भूमितले यथासुखमुपविष्टो बद्धपर्यङ्कासनः स्वाङ्के वामपाणितलस्योपरि दक्षिणपाणितलमुत्तानं निधाय नेत्रे नात्युन्मीलयन्नातिमीलयन् दन्तैर्दन्ताग्राणि संदधानः प्राणापानप्रचारात्यंतनिग्रहे तीव्रदुःखाकुलचेतस एकाकारपरिणामो न जायते, ततो मन्दमन्दप्राणापानप्रचारः स्यादेवं द्रव्यक्षेत्रकालभावशुद्धिसंयुतस्तत्प्रतिपक्षदोषवर्जितः परमयोगी संसारलतामूलोच्छेदनहेतुभूतं प्रशस्तध्यानं ध्यायेत् । तद् द्विविधं; धर्य शुक्लं चेति । तत्र धर्म्यध्यानं बाह्याध्यात्मिकभेदेन द्विप्रकारं । तत्र परानुमेयं बाह्यं सूत्रार्थगवेषणं दृढव्रतशीलगुणानुरागनिभृतकरचरणवदनकायपरिस्पंदवाव्यापारं मुंभRभोगाररक्षवथुप्राणापानोद्रेकादिविरमणलक्षणं भवति । स्वसंवेद्यमाध्यात्मिक, तद्दशविध; अपायविचयं, उपायविचयं, जीवविचयं, अजीवविचयं, विपाकविचयं, विरागविचयं, भवविचयं, संस्थनाविचयं, आज्ञाविचयं, हेतुविचयं, चेति । एतद्दशविधमपि दृष्टश्रुतानुभूतदो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy