SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे-तपोवर्णनम् । ७५ मे नोत्पद्यत इति चिन्ताप्रबन्धः, संकल्पस्तस्याध्यवसानं तीव्रकषायानुरंजनं, एतदमनोज्ञसंप्रयोगस्यानुत्पत्तिसंङ्कल्पाध्यवसानं प्रथमाः । एतहुःखसाधनसद्भावे तस्य विनाशकांक्षोत्पन्नविनाशसंकल्पाध्यवसानं द्वितीयाः । मनोज्ञं नाम धनधान्यहिरण्यसुवर्णवस्तुवाहनशयनाऽऽसनस्रक्चन्दनवनितादिसुखसाधनं मे स्यादिति गर्द्धनं । मनोज्ञविप्रयोगस्योत्पत्तिसंकल्पाध्यवसानं तृतीयाः । सुखसाधनसद्भावे तेन विप्रयोगो मे न स्यादिति संकल्पः उत्पन्नविनाशसंकल्पाध्यवसानं चतुर्थार्त । एतच्चतुर्विधार्तध्यानं कृष्णानीलकापोतलेश्याबलाधानं प्रमादाधिष्ठानं । प्रागप्रमत्ताच्छङ्गुणस्थानभूमिकमन्तमुहूर्तकालमतः परं दुर्धरत्वात् क्षायोपाशमिकभावपरोक्षज्ञानत्वात्तिर्यग्गतिफलसंवर्तनीयमिति । रौद्रं च बाह्याऽऽध्यात्मिकभेदेन द्विविधं । तत्र परानुमेयं बाह्य परुषनिष्ठुराऽऽक्रोशननिर्भर्त्सनबन्धनतर्जनताडनपीडनपरदारातिकमणादिलक्षणं । स्वसंवेद्यमाध्यात्मिकं तच्च हिंसानंदमृषानन्दस्तैयानन्दविषयसंरक्षणानन्दभेदाच्चतुर्विधं । तीनकषायानुरंजनं हिंसानन्दं प्रथमरौद्रं । स्वबुद्धिविकल्पितयुक्तिभिः परेषां श्रद्धेयरूपाभिः परवंचनं प्रतिमृषाकथने संकल्पाध्यवसानं मृषानन्दं द्वितीयरौद्र । हठात्कारेण प्रमादप्रतीक्षया वा परस्वापहरणं प्रति संकल्पाध्यवसानं तृतीयं रौद्रं । चेतनाचेतनलक्षणे स्वपरिग्रहे ममैवेदं स्वमहमेवास्य स्वामीत्यभिनिवेशात्तदपहारकव्यापादनेन संरक्षणं प्रति संकल्पाध्यवसानं संरक्षणानन्दं चतुर्थं रौद्रं । चतुष्टयमपीदमिति कृष्णनीलकापोतले. १ स्वं धनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy