SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे - संयमवर्णनम् । एवं परीषहानसंकल्पितोपस्थितान् सहमानस्यासं क्लिष्टचेतसो रागादिपरिणामास्त्रवाभावान्महान् संवरो भवति । एते सर्वेऽपि परीषहाः कर्मोदयजनितास्तद्यथा--- ज्ञानावरणे प्रज्ञाऽज्ञाने, दर्शनमोहान्तराययोरदर्शनाला भौ, चारित्रमोहे मानकषायोदये नान्यनिषद्याऽऽक्रोशयाचना सत्कारपुरस्काराः, अरतिवेदयोर रतिस्त्रीपरीषहौ, वेदनीये क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाः । शय्या एकस्मिन् जीव एकस्मिन् काले एकादयः परीषहा आ एकोनविंशतेर्युगपद्भवन्ति । तद्यथा - शीतोष्णपरीषहयोरेकतरः, चर्यानिषद्यानाञ्चान्यतम एव भवति । श्रुतज्ञानापेक्षया प्रज्ञाप्रकर्षे सत्यवध्यभावापेक्षयाऽज्ञानोपपत्तेः सहावस्थाविरोधो न भवति । मिथ्यादृष्टिसासादनसम्यग्दृष्टि सम्य मिथ्यादृष्ट्य संयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतेषु सप्तसु गुणस्थानेषु सर्वे परी - पहाः सन्ति । अदर्शनपरीपहं विनाऽपूर्वकरण एकविंशतिपरीषंहा भवन्ति । अरतिपरीषहमन्तरेण सवेदानिवृत्तौ विंशति परीषहाः स्युः । अवेदानिवृत्तौ स्त्रीपरीषहे नष्ट एकोनविंशतिपरीषहा भवेयुः । तस्यैव मानकषायोदयक्षयान्नाग्न्यनिषद्याऽऽक्रोशयाचनासत्कारपुरस्कारा वि ५७ नश्यन्ति । तेषु विनष्टेषु अनिवृत्तिसूक्ष्मसाम्परायेोपशान्तकषायक्षीणकषायेषु चतुर्षु गुणस्थानेषु चतुर्दश परीषहाः सन्ति । क्षीणकषाये प्रज्ञाऽज्ञानालामा विनश्यन्ति । सयोगिभट्टारकस्य ध्यानानलनिर्दग्धघातिकर्मेन्धनस्यानन्ताप्रतिहतज्ञानादिचतुष्टयस्यान्तरायाभावान्निरन्तरमुपचीयमान शुभपुद्गलसन्ततेर्वेदनीयाख्यं कर्म विद्यमानमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy