________________
चारित्रसारे
प्रक्षीणघातिसहायबलं स्वप्रयोजनोत्पादनं प्रत्यसमर्थ, यथा-विषद्रव्यं मंत्रौषधिबलादुपक्षीणमारणशक्तिकमुपयुज्यमानं न मारणाय समर्थ, यथा छिन्नमूलतरुः कुसुमफलप्रदो न भवति, यथोपेक्षावतो. रनिवृत्तिसूक्ष्मसाम्पराययोमैथुनपरिग्रहसंज्ञा, यथा च परिपूर्णज्ञान एकाग्रचिन्तानिरोधाऽभावेपि कर्मरजोविधूननफलसंभवाद्धयानोपचारः, तथा क्षुधारोगवधादिवेदनासद्भावपरीषहाभावे वेदनीयकर्मोदयद्रव्यपरीषहसद्भावादेकादश जिने सन्तीत्युपचारो युक्तः वेद्यकर्मोदयसद्भावादेकादश जिने सन्ति । घातिकर्मबलसहायरहितं वेद्यं फलवन्न भवति तेनैकादश जिने सन्ति । एवं सति स्यादस्ति स्यान्नास्तीति स्याद्वाद उपपन्नो भवति । तथा च शतकस्य प्रदेशबन्धे वेदनीयस्य भागविशेषकारणकथनेऽप्युक्तम् । " जम्हा वेदणीयस्स सुहुदुक्खोदयस्स णाणावरणादि उपकरणकरणं तम्हा वेदणीयस्सेव सुहदुक्खोदयोदीसदे” इति । तस्माद्वेदनीयं घातिकर्मोदयं विना फलवन्न भवतीति सिद्धम् । __नरकतिर्यग्गत्योः सर्वे परीषहाः, मनुष्यगतावाद्यभंगा भवन्ति, देवगतौ घातिकर्मोत्थपरीषहैः सह वेदनीयोत्पन्नक्षुत्पिपासावधैः सह चतुर्दश भवन्ति । इन्द्रियकायमार्गणयोः सर्वे परीषहाः सन्ति, वैक्रियकद्वितयस्य देवगतिभंगा तिर्यङ्मनुष्यापेक्षया द्वाविंशतिः। शेष.. योगानां वेदादिमार्गणानां च स्वकीयगुणस्थानभंगा भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org